Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 387
________________ शशुञ्जय-कल्पवृत्ती कुम्मी स प्राप्य जातिस्मृति तदा / तेषां नत्वा क्रमौ तस्था-वग्रतः शान्तमानसः // ते दध्युः सुहृदः सर्वे किमेष नः क्रमौ गजः। नमन् पुनः पुनस्तस्थौ न यात्यन्यत्र कुत्रचित् / / इत्यकस्माद् यतिर्ज्ञानी तत्राऽऽयातो वने द्रुतम् / पृष्टः कुम्भिस्वरूपं तैः जगादेति च तान् प्रति // भूमण्डनपुरे चन्द्र-वीरसूरामराभिधाः / चत्वारः सुहृदश्चासन् पञ्चमो धरणः पुनः॥ चत्वारो जिनधर्मज्ञाः कुर्वाणा आर्हतं वृषम् / पञ्चमं प्रत्यवोचस्ते धर्म जैनं कुरुष्व भोः ! // सोऽपि धर्म कृत्वाऽथ मृतोऽयं कुञ्जरोऽभवत् / यूयं सुहृदश्वात्रोगता दैववशाद्वने // एष कुम्भ्यधुना भूयो भूयोऽनशनमेव तु / याचते प्राग्भवं स्मृत्वाऽग्रतः सद्गतिहेतवे / / गजोऽनशनं लात्वा प्रपाल्य जीवितावधि / स्मारितः शिवशलेति स्वर्गं प्रथममीयिवान् / तदा ते सुहृदो धर्मं जनेन्द्र सविशेषतः। प्रपद्य कदलीपुर्यां लक्ष्म्यर्थं च समागमन् // उपाय॑ विभवं भूरि चत्वारः सुहृदः क्रमात् / स्वपुरेऽभ्येत्य कुर्वन्ति धर्म सर्वज्ञभाषितम् / / ततः शत्रुञ्जये तीर्थ चत्वारः सुहृदो मुदा / गत्वा नत्वा जिनान् भूरि कमलामव्ययन् ध्रुवम् // विधाय सप्त षष्ठानि प्रान्ते चाष्टममेककम् / मुक्तियानोचितं कर्मो-पार्जयामासुराशु ते // यतः-"छट्टेणं भत्तेणं अपाणएणं तु सत्त जत्ताओ। जो कुणइ सित्तुंजे स तइयभवे लहइ सिवसोक्खं / / 1 // " चत्वारः सुहृदस्ते तु प्रान्ते मृत्वा सुरालये / प्रथमे समपद्यन्त मित्रदेवस्य सन्निधौ / / पञ्चापि सुहृदच्युत्वा क्रमाद्भोगपुरे वरे। अभूवन् जिनदत्तस्य तनया विनयान्विताः॥ क्रमात्प्राप्य व्रतं शत्रु-अये गत्वा तपोऽनघम् / कृत्वा छित्त्वाखिलं कर्म अष्ठिपुत्राः शिवं ययुः / / 32 // इति करिविषये चतुर्मित्रकथा / इन्द्राबनगरे कोन्त-सेनभूपेऽवति क्षितिम् / व्यवहार्यभवद्देव-सेनो भूपतिवल्लभः // धनसेनौष्ट्रिकावासान् निर्गत्यैकोष्ट्रिका किल / देवसेनाङ्गणे नित्यं तिष्ठति स्म सुखार्थिनी // कुट्टयित्वौष्टिकः स्वीय-गृहे चानयते यदा / तदा कृत्वा छलं याति देवसेनालयाङ्गणे // तत इभ्येन मूल्येन समानीतोष्ट्रिका गृहे बहिश्चारं चरित्वाऽथ सन्ध्यायां स्वयमेति च / / एकदा जिनसूरीशं तत्रायातं बहिर्वने / इभ्योऽप्राक्षीत कथं ह्येषो-ष्टिकाऽभ्येति ममालये ? // सूरिराचष्ट ते पत्नी ह्येषा पूर्वभवप्रिया / कृत्वा दीपं जिनस्याग्रे पश्चात्तस्मात्प्रदीपतः // स्वकीयगृहदीपं तु विधायाथ जिनालये / चकार गृहकार्याणि सर्वाणि प्रतिवासरम् / / सन्धुक्षितोऽनया धूपा-ङ्गारेण चुल्हकः स्त्रिया / अनालोच्य मृता तिर्यग्-मध्ये जातोष्ट्रिकाऽधुना / / जातिस्मृत्या भवं पूर्वं ज्ञात्वा तव निकेतने / तस्थावेपोष्ट्रिका स्वीयं कृत्यं निनिन्द सन्ततम् / / ततः स्वभाषया पूर्व-भवे निषेवितं तमः। आलोच्यानशनोन्मृत्वा स्वर्गलोकमुपागमत् / / ततः स उष्ट्रिकाजीव-रच्यतः स्वर्गामापुरे / प्राप्य मानुष्यकं जन्म ययौ शत्रुजये शिवम् // 1 // " श्रीशवजयमाहात्म्यं देवसेनो धनेश्वरः / श्रुत्वा शिवाचलेऽनंसीद् ऋषभादिजिनेश्वरान् / / भुजङ्गेनान्यदा देवसेनो दष्टोऽतिदारुणः / शिवाद्रिमस्मरच्चित्ते भूयो भूयः सुभावतः / / उत्ततार क्षणात् वेडं सर्प तस्य देहतः / सुखी जातस्ततो भूरि-कालं स देवसेनकः // ततः शत्रुञ्जयं ध्यानं कुर्वाणः प्रतिवासरम् / देवसेनो गृहावोसे केवलज्ञानमाप्तवान् / / ततो विबोधयन् भव्य-जीवान् साधुनिषेवितः। ययौ शत्रुञ्जये शैले महोदयसुखप्रदे // उपदेशं ददानस्य देवसेनस्य तत्र तु / ' असङ्ख्यातनृणां ज्ञान-मक्षयं समजायत / 17 / / इति विषहरविषमे देवसेनकथा /

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404