Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 389
________________ 138 शत्रुञ्जय-कल्पवृत्ती धर्म सारतरं तदा / भद्रबाहुवराही तु अश्रोष्टां गुरुसन्निधौ // भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भव-स्तत्त्वस्येह कृते परिभ्रमत रे लोकोः सृतं चेष्टितैः / आशापाशशतोपशान्तिविशदं चेतः समाधीयतां, कोप्यात्यन्तिकसोख्यधामनि यदि श्रद्धेयमस्मद्वचः / / 1 // संझब्भरोगजलबुब्बुयउवमे जीविए जलबिंदुचंचले। जुठवणे नईवेगसन्निभे याव जीव किमयं न बुज्भसि // 2 // " श्रुत्वेति तौ गृहे यातौ प्रतिबुद्धौ सहोदरौ / मिथो निमन्त्रयेते स्म कथं जन्म तु नीयते ? / / यतः- " अप्रे गीतं सरसकवयः पाश्र्वतो दाक्षिणात्याः, पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् / यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं, नो चेच्चेतः ! प्रविश सहसा निर्विकल्पे समाधौ / / विमृश्येति तदा दीक्षां द्वावेव तु सहोदरौ / ललतुः श्रीगुरूपान्ते संसाराशर्मणश्छिदे // भद्रबाहुश्चतुर्दश-पूर्वी सूरिगुणान्वितः / दशवकालिकादीनां ग्रन्थानां कारकोऽभवत / / तथाहि-आवस्सयस दसकालियस तह उत्तरज्झमायारे / सूअगडे निज्जुत्तिं वुच्छामि तहा दसाणं च // 1 // कप्पस्स य निज्जुत्तिं ववहारस्सेव परमनिउणस्स / सूरियपन्नतीए वुच्छं इसिभासियाणं च / / 2 / / " एतेषां ग्रन्थानां नियुक्तिं भद्रबाहुरकार्षीत् ; उक्तञ्च-“ प्राप्तसूरिपदो भद्र-बाहुः सूरीश्वरः क्रमात् / एतेषां किल ग्रन्थानां बभूव कारकः स्फुटम् // भद्रबाहुळधाद्भाद्र-बाहवीं संहितां किल / श्रीयशोभद्रसूरीणा-मभून स्वर्गमनं तदा / / आर्यसम्भूतसूरीशः पूर्वाणि च चतुर्दश / धरणोऽजनि विख्यातो भव्यजीवप्रबोधकृत् / / चतुर्दश च पूर्वाणि पठित्वा सूत्रतोऽर्थतः / वराहः पाठयामास शास्त्राण्यन्यान् जनान् सदा / / भद्रबाबाह्रसूरीशात् स्वभ्रातुः पार्श्वतोऽन्यदा / वराहो याचते सूरि-पदं विद्याभिमानवान् / / भद्रबाहुर्जगी वत्स ! सगर्वोऽसि सदा भृशम् / तेन सूरेः पदस्यासि योग्यो नहि भवान् बुध ! / / बूढो गणहरसदो गोयममाइहिं वीरपुरिसेहिं / जो तं ठवेइ अप्पत्ते जाणंतो सो महापावो // 1 // " ततो रुष्टो व्रतं त्यक्त्वा वराहो विप्रवेषभृत् / सर्वशास्त्राब्धिपारिणो-ऽत्राहमस्मीति जल्पति // वाराहसंहितादीनि शास्त्राणि भूरिशस्तदा / वराहो विधेऽन्याज्ञान् पाठयामास तानि च / / अधीतार्थितनिःशेष-पूर्वा जानन् ग्रहस्थितिम् / भूतभाविभवत् सर्वं वराहो जल्पति स्म सः / / लोको जगुः कथं वेत्सि भाविभूतादि वोडव ! / प्रोक्ते एवं जनैः प्राह वराहः पुरतो नृणाम् / / बोल्येऽहं लग्नशास्त्राणि गुरोः पाश्र्वे पठन् भृशम् / ततोऽन्यदा मयाऽरण्ये लग्न चाऽमण्डि सुन्दरम् / / विस्मृत्योन्यत्र गत्वाऽह-मस्मरं लग्नमेव तत् / अमृष्टं च ततो माष्टुं यावत्तत्रागमं वने // तावत्तत्र स्थितं सिहं दृष्ट्वाहं लग्नभक्तितः। हरेरधः करं माष्टुं लग्नं प्रक्षिप्तवानभीः / / तावत् पञ्चाननः सूर्यो भूत्वा साक्षाजगाविति / अहं सूर्योऽस्मि ते लग्न-भक्त्या तुष्टोऽस्मि साम्प्रतम् / / वरं वृणीष्व यच्चित्ते रोचते तद् वराह भोः ! / देवानां दर्शनं नैव निष्फलं जायते क्वचित् / / ततोऽजल्पमहं स्वामिन् ! प्रसन्नो मयि चेद्यदि / तदा निजविमाने मां स्थापयित्वा प्रयत्नतः / / समस्तं दर्शय ज्योतिश्चक्रं चरन् नभस्तले / ततो मां स्वविमानस्थं रविश्व सुखं किल // युग्मम् / / देवशक्त्या विमानस्थं कृत्वा मां तरणिस्तदा / दर्शयामास सूर्येन्दु-भादिचारं समं मम / / उत्तार्य स्वविमानात्तत्र लग्नस्थाने रविस्तदा / मुक्त्वाऽदाद्भरिशो विद्या ज्योतिष्कशास्त्रकारकाः // सूर्यमापृच्छय विश्वम्यो-पकारायाहमन्वहम् / भ्रमन् भूमौ व्यधाज्योतिः-शास्त्राणि भूरिशस्तदा / / वराहमिहिरेत्याह्वां स्वस्मिन् प्रख्यापयन् सदा / ज्योतिष्कशास्त्रतत्त्वानि जजल्प पुरतो नृणाम् / / ततो लोके परां पूजां वराहमिहिरोऽन्वहम् / लभमानः प्रतिष्ठानपुरे स्वर्गोपमे ययौ / / स्वकलाकुशलत्वस्य दर्शनात् सूचितोक्तितः / वराहो रऊजयामास जितशत्रुमहि

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404