Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 369
________________ शत्रुञ्जय-कल्पवृत्ती करणतत्पराः / / अश्वास्त्रीणि सहस्राणि उष्ट्राः शतद्वयं तथा / सप्त लक्षा मनुष्याश्च महिषाः सप्त शतानि च // सहस्रत्रितयं वर्याः सिकरयश्चामराणि च / चतुर्मितसहस्राणि रुचिरा जैनगायनाः // सार्द्धत्रयसहस्राणि वर्या मङ्गलपाठकाः। बिरुदानि तु मे पत्युः जगदू रुचिरस्वरम् // एवंविधेन सङ्घन सहितो मत्पतिः पुरा / यात्रां शत्रुञ्जये तीर्थ गिरिनारे व्यधान्मुदा / / ध्यात्वेति ललितादेवी सङ्घस्य भक्तिहेतवे / सरः कारयितुं पाली-ताणके पुर ईहते // तत आकार्य भूयिष्ठान सूत्रधारान् विशारदान् / जगाद ललितादेवी भवद्भिः क्रियतां सरः // अश्मबद्धं सरो वयं तत्र कारयितुं तदा / आनिन्ये ललितादेवी पाषाणान् खानितो बहून् / ततस्तस्य पुरः पार्वे कुम्भकारैर्विशारदैः / खनिते सरसि प्रौढे ललिता मुमुदेतराम् / / घटयित्वा ततः प्रौढ-प्रस्तरान् सूत्रधारकाः। बबन्धुस्तत् सरः सर्वं चतुःप्रतोलिकान्वितम् / / तत्यैव सरसः पालौ पार्श्वनाथालयं पृथुम् / कारयित्वा च तद्विम्बं तत्रैव सा न्यवीविशत् // ततः सा ललितादेवी सङ्घ भूरितमं तदा / मेलयित्वा सरःपालौ महान्तमुत्सवं व्यधात् / / जेमयित्वा वराहारैः श्रावकान् श्राविकांस्तथा / श्रीगुरून् प्रतिलाभ्यापि मुमुदे ललिता तदा // सद्वस्वैः श्रीगुरूंस्तत्र परिधाग्य कृतादरम् / श्रावकोन् श्राविकांश्चापि ललिता पर्यधापयत् // तदेवानुपमादेवी दध्याविति स्वमानसे / ज्येष्ठान्या ललितादेव्या कारितं ललितासरः // सङ्घभक्त्याप्यहं चेद्धि कारयामि सरो वरम् / तदा ममापि पुण्यं स्या-त्तीर्थेऽस्मिन् शिवपर्वते / / ततश्चानुपमादेवी तेजःपालस्य गेहिनी / पप्रच्छ भ्रातरं देव-पालं स्वीयमिति स्फुटम् // अहं कारयितुं तीर्थेऽस्मिन्नेव विपुलं सरः / वाञ्छामि स्थानकं वयं कथय त्वं सहोदर ! // भ्राता प्राह गिरावत्र जावडेर्वणिजः पुरः / आद्यार्हत्प्रतिमां नव्यां भक्त्या स्थापयतः सतः।। मूलं शृङ्गं द्विधा जातं गोमुखम्य खरारवात् / तत्रादौ प्रथमं शृङ्गं प्रथमाईत्समन्वितम् / / द्वितीयं मरुदेव्याख्यं शृङ्गं जातं जने श्रुतम् / तयोश्च शृङ्गयोर्मध्ये यत्राजन्यजितालयम् || तत्तदा पतितं देव-गृहं. शुन्योऽस्ति सा मही। तत्र चेत् कार्यते वयं सरः सङ्घस्तदा सुखी // ततोऽनुपमया देव्या सारं सरोवरं घरम् / अजितार्हद्गृहस्थाने कारितं बहुरैव्ययात् / / तस्यैव सरसः पार्वे स्फारं जिनेन्द्रमन्दिरम् / देव्याऽनुपमयोऽकारि व्ययन्त्या विभवं बहु // यतः-" प्रासादप्रतिमा यात्रा प्रतिष्ठा च प्रभावना / अमायुद्घोषणादीनि महापुण्यानि भाग्यतः / / 1 // " रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव, स्वर्गः कल्पमहीनहामिव सरः पङ्केरुहाणामिव / पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः // 1 // " जायमानोत्सवेऽन्येाः पप्रच्छुः सजना इति / ललितादेवि ! द्रव्यं त्वं कस्याऽव्ययो वदाधुना / / ललितादेव्युवाचेति पत्युः सत्कं धनं बहुम् / व्ययितं सरसीदानी-मस्मिन्नेव मया मुदा / / कस्य द्रव्यं त्वया वास्मिन् सरसि व्ययितं वद / इत्युक्ते सज्जनैराहा-नुपमादेविका तदा / पितुः सदनसत्कं तु धनं सरोवरे मया / व्ययितं सज्जना एव यूयं जानीथ साम्प्रतम् / / गदिते ललितादेव्यो सूनृते सज्जनाग्रतः / बभूव पयसा पूर्णं तदैव ललितासरः / / गदितेऽनुपमा देव्या कूट एव सज्जनाग्रतः। बभूव पयसा रिक्तं तदेवानुपमासरः // ततोऽनुपमया देव्या सर्व सरोवरं स्फुटम् / ताम्रपट्टिकयाऽकारि खचितं बहुरैव्ययात् / / तथापि तत् सरो मेघ-वोरिणी पूरितं स्फुटम् / रिक्तं प्रजायतेऽम्भोभिः सद्य एवाधुना सदा // अतः केनापि नो कूटं जल्पनीयं हितेच्छुना। कूटोक्तित इहामुत्र जायते दुःखमङ्गिनाम् / / सत्योक्तितः सदा लोका सुखिनः स्युरिह स्फुटम् / परत्र स्वर्गसौख्यानि श्रियन्ते शिवशर्म च / / यत :--"विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं, मुक्तेः पथ्यदनं जलाग्नि

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404