Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 368
________________ ललितासरोऽनुपमसराप्तम्बन्धः 197 योद्धैरङ्गीकृतं तीर्थं पुण्डरीकाभिधं वरम् / ज्ञात्वा धनेश्वराचार्यों वल्लभीनगरे ययौ / / शिलादित्यनृपं तत्र प्रबोध्य सूपदेशतः / जित्वा बौद्धांश्च सिद्धादि तीर्थं शीघ्रमवालयत् / / विक्रमार्कान्नृपाद्वर्षे सप्तसप्तचतुर्मिते / शिलादित्यनृपो जैन-धर्मकर्ताऽभवद्वरः / / इति शिलादित्य-प्रबन्धः। ' अणुवमसरचेइयमजियठाणे ' इति सम्बन्धः कथ्यते सङ्क्षपात् अन्येार्ललितादेवी वस्तुपालस्य गेहिनी / दध्यौ पत्या ममाऽकारि चैत्यं स्फार शिवाचले / / कोट्योऽष्टादश द्रव्याणां लक्षा षण्णवतिप्रमा / व्ययिता सिद्धभूमीधे कान्तेन मम भावतः।। कोट्योऽष्टादश द्रव्याणां लक्षास्त्र्यशीतिसम्मिताः / व्ययिता गिरिनागद्रौ पत्या मम सुभावतः // कोट्यो द्वादश द्रव्याणां लक्षास्त्रिपश्चसम्मिताः / पत्या ममार्बुदक्ष्माभ्रे व्ययिता धर्महेतवे / / त्रयोदश सहस्राश्च त्रयोदशाधिकाः किल / नवीना जिनपागाराः कान्तेन कारिता मम // त्रयोविंशतिशत्या च जीर्णे जिनेन्द्रसद्मनि / उद्धृतेर्मे पतिर्जन्म सफलीचकृवान्मुदा / / नव शतानि चतुर-शीत्यधिकानि मे पतिः। अचीकरन्मुदा धर्म-शाला धर्मस्य हेतवे / / दन्तसिंहासनान्येव शतानि पञ्च मे पतिः। अचीकरन् च गुरूणा-मुपवेशाय सुभावतः / / दन्तदुकूलसत्कानि पञ्चशतमितानि च / सत्समवसरणानि पत्याद्य कारितानि मे / / कोट्योऽष्टादश द्रव्याणां कान्तेन मम भावतः / व्ययिता स्तम्भतीर्थे च देवपुर्यां भृगोः पुरि। कोट्योऽसङ्ख्याः सुशास्त्राणां श्लोकाः पत्या ममाधुना / लेखिता लेखकोपान्ताद् दायं दायं धनं बहु // एकविशतिराचार्य-पदानि बहुरैव्ययात् / मम पत्या कारितान्येव जैनधर्मं वितन्वता // प्रत्यन्दं सङ्घवात्सल्यचतुष्कं गुरुपूजनम् / कुर्वन्मम पतिः सन्ध्या-त्रये पूजयते जिनम् / / द्विवारं तु प्रतिक्रान्ति संविभागं गुरौ सदा / कुर्वन् यथोचितं दानं ददतेऽर्थिभ्य आदरात् / / भूपचित्तानुरोधाय माहेश्वराः सुरालयाः / शतानि विंशतिः कान्तो मदीयोऽचीकरत् क्रमात् / / बहूनीश्वरलिङ्गानि ब्रह्मशालाश्च भूरिशः / तपस्विनां. मठान् सप्त-शतीमचीकरत्पुनः / / शतानि सप्त सत्रस्योगारान् मदीयवल्लभः / वर्या वापीश्चतुश्चत्वारिंशच्चाकारयत् पुनः / / पाषाणबद्धकासारां-श्चतुरशीतिरद्भुतान् / नव शतानि कूपांश्च प्रपाश्चाकारयत्पतिः / / द्विजकार्पटिकादीनां बहूनां प्रतिवासरम् / दत्ते दानं सुसाधूंश्च शुद्धानं प्रतिलाभयन् // वप्रानश्ममयान् प्रौढान् द्वात्रिंशद्रमणो मम / चतुःषष्टीर्मसीतीश्च कारयामास सुन्दराः // स्वर्णलक्षत्रयेणैव सिद्धाद्रौ तोरणं वरम् / अचीकरत् पति, तु हज्जायां तु सकोरणम् // हेमलक्षत्रयेणैव स्तम्भतीर्थे पुरे वरे / उच्चस्तरं सुसमव-सरणं श्रीगचीकरत् / / षत्रिंशति रणेष्वासीत् सिद्धयो रमणस्य मे / निधानानि मही दत्ते पदे पदे सुपुण्यतः // त्रयोदश सहस्राणि सार्द्धाणि कर्मकारकाः / शतानि पश्च पत्युर्मे सूत्रधाराश्च सुन्दराः / / शतानि त्रीणि सा नि दीपिकादीपधारकाः / पत्युर्मे बिरुदानि स्यु-श्चतुर्विशतिः भान्ति च // कान्तप्रथमयात्रायां देवालया रदात्मकाः। चेलू रथस्थिताश्चतु-विशतिप्रमितास्तदा / / वर्याः काष्ठमया देवालया विंशत्युत्तरं शतम् / रथाश्चतुःसहस्राणि सार्द्धानि रेजिरे तथा // चत्वारि च सहस्राणि सेज्जवालानि रेजिरे। वाहिन्योऽशीति शतं स्युः चेलुश्च पित्तलात्मिकाः॥ सुखासनानि च नव शतानि रेजिरे तथा / शतानि पञ्च पालख्यः सद्दारुवसनात्मिकाः // शतानि सप्त सूरीशाः श्वेतवस्त्रलसत्क्रियाः / यतयोऽष्टौ सहस्राणि तपस्तपनतत्पराः // दिग्वनाः सूरयश्चैका-दश दिग्वसनान्विताः / यात्रार्थ चलिता स्वखक्रिया

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404