Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
________________ 126 शत्रुञ्जय-कल्पवृत्ती तदा तस्मिन् दृष्टे श्रेष्ठिनि गच्छति / कृत्वा दृष्टमदृष्टं च श्रेष्ठी बुद्धिं स्मरन् ययौ // चकिता भूमिभुगपत्नी श्रेष्ठिनं शूलमीक्षते / श्रेष्ठी तु निर्विकारः सन् कुमार्गे नैव गच्छति / / ततोऽन्यदा महीपाले समेतेऽवग् नृपप्रिया / एष ते जनकस्थानी श्रेष्ठ यस्ति वल्लभः सदा // श्रेष्ठिराड् भोगहेतुं मां विलग्नो मे तनौ दृढम् / मया निर्भसितोऽत्यन्तं दूरीभूतस्तदा पते ! // एष च्छन्नं निहन्तव्यो दुष्ठः श्रेष्ठी त्वया पते ! / ततो राज्ञाऽन्यदा लेखो-ऽलेखीति निजपाणिना / / एष शीघ्र निहन्तव्यो निर्विचारं हि धीसख ! / यतोऽसौ विद्यते दुष्टः पापिष्ठो दुष्टमानसः / / मुद्रयित्वाऽथ तं लेखं वितीर्य श्रेष्ठिने तदा / नृपोऽवग् गच्छ कल्याण-ग्रामेऽपय च मन्त्रिणः / / लेखं लात्वा व्रजन्तं तं दृष्ट्वा ध्यातं पुराधसा / एष चेद् भोज्यते तर्हि मत्कृतं वक्ति न क्वचित् // ततः श्रेष्ठिनमाकार्य पुरोधाः प्रोक्तवानिति / भुक्त्वाऽद्यात्र व्रज स्वच्छ ! तदा श्रेष्ठी जगाविदम् // एष भूपार्पितो लेखः सुमतेमन्त्रिणो द्रुतम् / दातुं विलोक्यते तेन भुक्त्वा स्थातुं न शक्यते // ततः पुरोधसा प्रोक्तं भुक्ष्व त्वमत्र साम्प्रतम् / लेखं सुमतये दास्ये मुद्रितं त्वरितं वणिम् // स्मृत्वा मतिं तृतीयां तु श्रेष्ठी भोक्तुं स्थितस्तदा / लेखं लात्वा पुरोधाश्च ययौ सुमतिसन्निधौ / लेखं दत्त्वा स्थितो यावत् सेोवाचि सुमतिना तदो। रहो नीत्वाऽसिना छिन्नं शिरस्तस्य च मन्त्रिणा // श्रेष्ठा भुक्त्वा नृपोपान्ते समेतो भू भुजोदितः। किं त्वं गतो न कल्याण-ग्रामे सुमतिसन्निधौ ? // श्रेष्टी जगावहं भोक्तुं बलात्पुरोधसाऽधुना / स्थापितः स्वगृहे तत्र पुरोधा लेखयुग् ययौ / / राजा दध्यौ हतो नूनं पुरोधा मन्त्रिणा यदा। तदाऽकस्मादभूद् हा ! नः पुरोधाः साम्प्रतं मृतः।। ततो भूमिभुजा प्रोक्तं प्रेषितस्त्वं मया स्थितः। श्रेष्ठी बुद्धित्रयादान-फलं स्वं प्रोक्तवान् समम् / / ततो राज्ञा प्रिया सा तु कर्षिता निजदेशतः। श्रेष्ठी तु मन्त्रिणां मुख्यो विहितो रूचिरोत्सवम् // क्रमात्तस्य नरेन्द्रस्य हस्तिनां शतपञ्चकम् / लक्षाष्टकं तुरङ्गाणामासन् कोदिश्च सेवकाः / / अन्येद्युर्ज्ञानमाणिक्य-सूरिपार्वे नरेश्वरः / श्रेष्ठी च सिद्धशैलस्य माहात्म्यमशृणोदिति // कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / शत्रुजयं समासाद्य तिर्यश्चोऽपि दिवं गताः // ध्यायन्हृदये शत्रु-जयं तीर्थं शिवप्रदम् / लभन्ते स्वर्गकल्याण-कमलां त्वरितं जनाः // यो दृष्टो दुरितं हन्ति प्रणतो दुर्गतिद्वयम् / सङ्घशाहन्त्यपदकृत् स जीयाद् विमलाचलः // पल्योपमा सहस्रं तु ध्यानालक्षमभिग्रहात् / दुष्कर्म क्षीयते मार्गे सागरोपमसञ्चितम् // श्रुत्वेति भूपतिर्गन्तु-कामः श जयाचले। ध्यानं वितनुते शश्वत् तीर्थस्य गमनेच्छया / / क्रमाच्छ बुञ्जये गन्तु-मशक्तो मेदिनीपतिः / तीर्थध्यानान्मृतः स्वर्ग प्रथमे वासवोऽभवत् // ततश्च्युतः कलापुर्यां चन्द्रभूमिपतेः सुतः / सोमचन्द्राभिधश्वासीत् रूपलावण्यसुन्दरः॥ वर्द्धमानः क्रमाच्छत्रु-जयतीर्थनतेः फलम् / सोमचन्द्रो ययौ सिद्धपर्वते सङ्घसंयुतः॥ तत्र नाभेयदेवस्य तस्य पूजां वितन्वतः / द्रव्यपूजां क्षयं कर्मराशिर्बह्वी ययौ क्षणात्।। ततो वितन्वतो भवि-पूजामादिप्रभोः पुरः / सोमचन्द्रस्य सञ्जातं केवलज्ञानमञ्जसा // तदेवायुः क्षयात् मोम-चन्द्रः केवलविद्वरः। अलञ्चकार कल्याण-नगरी सिद्धशालिनीम् // 42 / / इति 'ध्याते' कथा //
Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404