Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 356
________________ कालकसूरिसम्बन्धः 105 समाकर्ण्य कल्किपुत्रश्चमत्कृतः। तस्मै विपश्चिते हेम्नां लक्षमेकं प्रदास्यति // अन्येयुः पुनरागत्य कविरेको मृदुस्वरम् / काव्यमेकं जगौ चित्त-चमत्कारकरं पुनः // " काचिद्वालकवन्महीतलगता मूलच्छिदाकारणं, द्रव्योपार्जनपुष्पितापि विफला काचिच्च जातिप्रभा / काऽपि श्रीकदलीव भोगफलदो सत्पुण्यबीजच्युता, सर्वाङ्गीणशुभा रसाललतिकावत् पुण्यबीजान्विता // 1 // " काव्यमेतत् समाकर्ण्य तस्मै पण्डितशालिने / दत्तो दास्यति कल्याण-लक्षमेकं चमत्कृतः // सूरिः प्रातिपदस्यान्ते धर्मकर्म मुदा करन् / कारयिष्यति सर्वज्ञ-प्रोसादान् भूरिशो नृपः // पुरःकृत्य बहु सङ्घ गुरुं च दत्तभूधवः / सिद्धाचलोदितीर्थेषु यात्रा बहीः करिष्यति // सङ्घवात्सल्यमुख्यानि धर्मकृत्यान्यनेकशः / करिष्यति वयं दत्तः कारयिष्यति चापरान् // स्वस्वकदाग्रहं मुक्त्वा निखिला यतयस्तदा / एकीभूय करिष्यन्ति धर्म सर्वज्ञभाषितम् // वर्षिष्यत्यम्बुदः काले काले जनेप्सितोऽनिशम् / नैवेतयो न दुर्भिक्षं दत्ते पाति महीं नयात् // भूपो न्यायाश्रिता लोका भूपालहितकारकाः / समृद्धा धम्मिणोऽत्यन्तं भविष्यन्ति न संशयम् // युग्मम् / / सूरिप्रातिपदस्यान्ते दत्तो धर्मधुरन्धरः / शक्त्याहूं स्वं सुतं राज्ये न्यस्य यास्यति ताविषम् / / स शक्तिर्मेदिनीपालो धर्मकृत्यान्यनेकशः / करिष्यति स्वयं चान्यान् कारयिष्यति भक्तितः / / शक्तिभूपोऽपि भूयिष्ठ-लक्ष्मी व्ययन् निरन्तरम् / लमिष्यति क्रमात् कर्ण-भूपतेरुपमा किल / / 62 // इति संपइविक्रमबाहड' इत्यादिगाथायाः कथाः सङ्कपतः समाप्ताः // जं कालयसरिपुरो सरइ सुदिही सया विदेहे वि / इणमिअ सकेणुत्तं तं सित्तुंजय महातित्थं // 30 // कालकसूरेः पुरोऽभ्येत्य शक्रेणोक्तं,- यत्तीर्थं शत्रुजयाभिधं महाविदेहेऽपि क्षेत्रे ‘सुदृष्टयः / सम्यग्दृष्टयो -- ऽस्मरन् ' वाञ्छति स्म देवान् नन्तुमिदं, तत्तीर्थ जयताच्चिरम् / / एकदाऽऽदिदिवः स्वामी विदेहे पूर्वनामनि / सीमन्धरं जिनं नन्तुं जगामानघमानसः // तदा धर्मोपदेशं तु ददत् सीमन्धरो जिनः / शत्रुञ्जयस्य माहात्म्यं जनानां पुरतो जगौ // तावद् गर्जन्ति हत्यादि-पातकानीह सर्वथा / यावच्छत्रुञ्जयेत्याख्या श्रूयते न गुरोर्मुखात् / / न रोगो न हि सन्तापो न दुःखं न वियोगतो / तस्य यस्य मनो नित्यं तीर्थे शत्रुञ्जयाभिधे / आसाद्य मानवं जन्म प्राप्य बोधिं गुरोर्मुखात् / यैर्न शत्रुजये देवो नतस्तस्याफलं जनुः // विना तपो विना दानं विनाऽर्चा शुभभावतः / केवलं स्पर्शनं सिद्ध-क्षेत्रस्याऽक्षयसौख्यदम् // शत्रुञ्जयसमं तीर्थ-मादिदेवसमः प्रभुः / जीवरक्षासमो धर्मो नास्ति विश्वत्रये परः // इन्द्रादयोऽपि ये देवा देव्योऽपि भुवनत्रये / सेवन्तेऽयं सदा तीर्थ-राज सद्गतिकाम्यया / भारते दक्षिणे खण्डे तीर्थं शत्रु जयाभिधम् / येऽर्चयन्ति जनास्तेषां सम्पदः स्युः करेऽखिलाः // सर्वतीर्थमयं तीर्थं शत्रुञ्जयसहोदरम् / विद्यते न जगन्मध्ये मुक्तिसातौघदायकम् / / न हि कालकसूरीश-समो विचारवान् गुरुः / विद्यतेऽन्यो हि भरत-खण्डमध्ये हिताशयः // श्रुत्वै. तद् वासवो नत्वा गुरुं सीमन्धरं तदा / वृद्धविप्रस्वरूपेण प्रतिष्ठानपुरे ययौ / मध्याह्ने कालकाचार्य

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404