Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ आम्रभटमन्त्रिकथा सेवधिमूचित्रान् / / त्वयाद्य सेवधिः प्राप्तः पूर्वोपार्जितपुण्यतः / अतोऽमुं भुक्ष्व वैदेह ! त्वमेव लाम्यहं न हि / / ऊदाकस्योदयो लक्ष्म्या-स्तदानीमजनि ध्रुवम् / अतो भूपो ददौ तम्यो-दयनेत्यभिधां तदा / / यतः"धनदो धनमिच्छूनां कामदः काममिच्छताम् / धर्म एवापवर्गस्य पारम्पर्येण साधकः / / 1 / / कृतप्रयत्नानपि नैति काँश्चित् स्वयं शयानानपि सेवते परान् / द्वयेऽपि नास्ति द्वितीयेऽपि नास्ति श्रेयःप्रचारो न विचारगोचरः / / 2 // " ततः कर्णावतीपुर्या-महत्सद्म मनोहरम् / चतुर्विशतिसर्वज्ञ-शोभितं व्यरचत् स च // पुत्रा उदयनस्यासँ–श्चत्वारो धर्मतत्पराः। आद्य आम्रभटो नाम्ना द्वितीयो बाहडः पुनः। तृतीयश्चाहडः पुत्रः सो (ल्हा) न्हाकश्च चतुर्थकः / एते सर्वे बुधोपान्ते पेठुः शास्त्राणि भूरिशः / / जयसिंहमहीशस्य राज्ये उदयनो वणिग् / क्रमान्मन्त्रिपदं प्राप धर्मकर्मसु कर्मठः / / सिद्धराजे दिवं याते कुमारपालभूपतेः / सर्वेषु मन्त्रिपु प्राप मुख्यत्वं पुण्ययोगतः // युग्मम् / / कुमारपालभूपालं नत्वाऽन्येार्जनो जगौ। कोङ्कणे विषयेऽस्तीद्बो मल्लिकार्जुनभूपतिः / / स्वस्मिन् राजपितामह इति स बिरुदावलिम् / बहमानो नृपान् सर्वान् तृणमेव न मन्यते / / मल्लिकार्जुनभूपस्य विरुदं तन्मयाऽचिरात् / उत्तार्यमिति चौलुक्य-नृपतिर्ध्यातवान् हृदि / द्वितीयेऽह्नि नृपो लात्वा बीटकं स्खकरे जगौ / मल्लिकार्जुनभूपस्योतारयिष्यति को मदम् ? / / भूपहस्तान्न को मो गृहीते बीटकं यदा / तदोत्थायाम्बडो लात्वा बीटकं प्रोक्तवानिति // मदस्तस्य मयोत्तार्य इत्युक्ते मन्त्रिणा तदा / राजा तस्मै ददौ चक्र-मिभाश्वादि विराजितम् // भूपदत्तं बलं लात्वाऽम्बडः कलवणी नदीम् // उत्तीर्य कोङ्कणेशस्य देशमध्ये समीयिवान् // मल्लिकार्जुनभूपेन सार्द्धं विरचयन् रणम् / अम्बडः सचिवो भग्नः पत्तनोपान्तमीयिवान् / / लज्जमानोऽसितां तुङ्ग-पटीं कृत्वाऽखिले बले / तस्थिवानम्बडस्तत्राऽप्रोच्य स्वागमनं प्रभोः / / अन्येार्बहिरायात-श्वौलुक्यो वीक्ष्य तलम् / पप्रच्छ मनुजोपान्ते कृष्णा तुङ्गपटी कथम् ? // नरोऽवक तव यो मन्त्री मल्लिकार्जनभूधवम् / जेतुं ययौ स भग्नः सन् पश्चादत्र समागमत् // तेन तुङ्गपटी कृष्णां लज्जमानः स मन्त्रिराट् / कृत्वा तस्थिवान् भूप-स्ततो दध्याविदं हृदि / / यस्य लज्जा भवेत् पुंसः स कार्य दुष्करं किल / चकार भूपतेर्मातुः पितुरन्यनृणां स्फुटम् // विमृश्येति नृपस्तत्र गत्वा सन्मान्य मन्त्रिणम् / स पुनः प्रेषयन् जेतुं मल्लिकार्जनभूपतिम् / / कोङ्कणे विषये गत्वा कृत्वा सैन्य द्विधा रहः / स्वागमं ज्ञापयामास मन्त्री वैरिमहीशितुः / तदा स्तोकबलं ज्ञात्वा मल्लिकार्जुनभूपतिः / अल्पसैन्यो रिपुं जेतुं वैरिचक्रान्तिके ययौ // युद्धं कुर्वंस्तदा राज्य-पितामहमहीपतिः / मन्त्रीशेन द्वयोः स्वीय-सैन्ययोरन्तराऽऽशु सः / स्मरेष्टं दैवतं राजन् ! जल्पन्निति स मन्त्रिराट् / तस्यारेमस्तकं पद्मनालवच्छिन्नवान् रणे / स्वायत्तीकृत्य तत्सैन्यं चौलुक्याज्ञां प्रवर्तयन् / पुरीमध्ये प्रवेशं तु चकाराम्बडमन्त्रिराट् / / प्रथमं प्रथमं देवं नत्वा श्रीजिनसद्मनि / गत्वा नृपगृहे चक्रे भोजनं परिवारयुग // मल्लिको. र्जुनभूपस्य स्वामिनः स्थगितं शिरः / कृत्वा तत्कोशमगाय ललावम्बडमन्त्रिराट् / तत्र स्वं सेवकं मुक्त्वा लात्वा चारिशिरस्तदा / आम्बड़ः पत्तनेऽभ्येत्या-नसीदादौ महीपतिम् / / शिरोऽरेः स्थगितं रात्रौ शृङ्गारकोटिशाटिका / तापक्षयङ्करं हारं माणिक्याह्न प्रछेवटम् // शुक्तिं विषापहाराह्वां द्वात्रिंशद्रघटान् वरान् / मुक्तानां मूढकानां षट् कुञ्जराणां चतुःशतीम् / / सत्पात्राणां शतं विंश-त्युत्तरं तत्प्रभाजुषाम् / सहस्राण्यष्ट सार्थ्याणां वेसराणां चतुःशतीम् / / हेम्नः टङ्कास्त्रयस्त्रिंश-लक्षाणि रजतस्य च / चतुर्दशार्द्धसंयुक्तः कोटिद्रव्यस्य तत्क्षणात् // मुक्त्वा भूमिपतेरग्रे वस्तून्येतानि मन्त्रिराट् / यावत् स्थितोऽनुगस्ताव-जयोदन्तं
Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404