Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 346
________________ बप्पभट्टिसूरिचरित्रम् लततन्मलालेदिनी, सा संस्कारशतैः क्षणार्द्धमधुरां बाह्यामुपैति द्युतिम् / अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ता धिया, श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे // मातङ्गीसङ्गपापेन मन्मित्रं मेदिनीपतिः। मा यातु नरकं घोरं नानाबह्वसुखप्रदम् / / भूपेन कारितं गेहं पुर्या बहिर्मनोहरम् / मातङ्गी भोगमाधातुं ज्ञातं श्रीसूरिणा क्रमात् / / पुरीबहिस्थितावास-भारपट्टे दिनात्यये / लिलेख श्रीगुरुः काव्य-चतुष्कं नृपबोधकृत् / / तथाहि-शैत्यं नाम गुणस्तवैव भवता स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां वजन्त्यशुचयस्त्वत्सङ्गतोऽन्ये यतः / किंचातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां, त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरो क्षमः / / सद्वृत्त ! सद्गण ! महार्य ! महार्ह कान्त ! कान्ताघनस्तनतटोचित चारुमूर्ते ! / आः पामरीकठिनकण्ठविलग्नभग्न ! हा हार ! हारितमहो भवता गुणित्वम् / / " जीयं जलबिंदुसमं संपत्तीओ तरंगलोलाओ। सुमिणयसमं च पिम्मं जं जाणसि तं करिज्जासि / / 1 / / लज्जिज्जइ जेण जणे मइलिजइ नियकुलक्कमो जेण / कंठटिए वि जीए तं न कुलि ने दृष्ट्वाऽऽमो वाचयन् पुनः / गुरुनिष्पादितान्येव दध्यौ मयि गुरोः कृपा / / मया जनंगमीसङ्ग-पापं साङ्कल्पिकं कृतम् / तेनैनसाऽधुनी श्वभ्र-पातो मम भविष्यति / / क्व यामि ? किं करोम्येष दर्शयिष्ये मुखं गुरोः। करिष्येऽहं तपस्तीर्थं सेविष्ये ऽहं तमश्छिदे / / ऊर्ध्वं मुखं गृहीत्वाऽहं यामि कूपे पतामि वा / आश्मानं हन्मि शस्त्रेण रज्जुपोशादिभिः पुनः॥ चिन्तयन्निति भूपालः कारयित्वा चितां बहिः / प्रविशत्यनले यावत् सूरिस्तत्रागमत्तदा // चातुर्वर्ण्य जने तत्र मिलिते दोषि भूपतिम् / धृत्वाऽवक् सूरिराड़ भूप ! शुद्धोऽसि खिद्यथा स्म मा / / त्वया सङ्कल्पमात्रेण मातङ्गी सेवितो नृप ! / सङ्कल्पेन प्रविष्टोऽग्नौ शुद्धोऽसि त्वमतो चिरात् / / यतः-" मनसा मानसं कर्म वचसा वाचिकं तथा / कायेन कायिकं कर्म निस्तरन्ति मनीषिणः // 1 // " काएण काइयस्स पडिक्कमे वाइयस्स वायाए / मणसा माणसियस्स सव्वस्स वयाइयारस्स // 2 // " एवं वचनतः शुद्ध-स्त्वं भूप ! धर्मकर्म तु / कुरु पाहि प्रजां न्यायाद् दानं विश्राणयाऽधुना / / भूपो यावदगाद् गेहं तावदेको नरो जगौ। वाग्पतिः क्षमापतिजज्ञे श्रीपोदाहस्त्रिदण्डभृत् / / ततः आमो गुरूपान्ते प्राहाहं श्रावककृतः। यदि वाग्पतिराहत्यं वृत्तं लाति तदा वरम् // ततो वागपतिमाधातुंश्वेतवस्त्रं गुरूत्तमः / प्रतिज्ञां कृतवान् भूमी-पतेरग्रे कृतादरः // वाग्पतिं मथुरापुर्या स्थितमाकर्ण्य सूरिराट् / ययौ तत्र प्रबोधाय वराहमन्दिरे वरे / तत्र ध्यानस्थितं नासा-दत्तलोचनगोचरः / वाग्पतिं वीक्ष्य तत्पृष्ठौ स्थित्वाऽऽशीरिति जल्पति / / यतः- "सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे, धत्से यत्त्वपरां विलज्ज ! सिरसा तच्चापि सोढं मया / श्रीर्जातामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं, मा स्त्रीलम्पट ! मा स्पृशेयभिहितो गोर्या हरः पातु वः / / 1 // एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफलके शृङ्गारभोरालसम् / अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं, शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः // रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु-र्वाचा पञ्चवटीवने विचरतस्तस्याऽहरद्रावणः। निद्रार्थं जननी कथामिति हरेहुंकारिणः शृण्वतः, पूर्वस्मर्तुरवन्तु कोपकुटिलभ्रूभङ्गरा दृष्टयः // उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः। सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404