Book Title: Sittunja Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

Previous | Next

Page 323
________________ शत्रुञ्जय-कल्पवृत्ती सप्तोत कोटाकोटिर्यत्र जगद्गुरुः / पञ्चाशीति कोटिलक्षाः प्राप्तवान् पादुकापदे // चतुश्चत्वारिंशत्कोटी सहस्रैरधिका पुरा / तं सिद्धाचलमानौमि सर्वतीर्थफलप्रदम् // शत्रुञ्जयमिदं तीर्थं न यावत् पूजितं भवेत् / गर्भवासो हि तस्यास्ति तावहरे भवेद् वृषम् / / यो दृष्टो दुर्गतिं हन्ति प्रणतो दुर्गतिद्वयम् / सङ्घशार्हन्त्यपदकृत् स जीयोद्विमलाचलः // महास्नात्रमहापूजा-ध्वजावारिकयान्विता / सङ्घपूजेति कृत्यानि पञ्च सङ्घाधिपः क्रियात् / / तौ द्राविडवारिखिल्लौ दशकोटिसमन्वितौ / निर्मलं केवलं प्राप्य सिद्धि शत्रुञ्जये गतौ। यथा चैत्रस्य राकायां पुण्डरीकोऽगमच्छिवम् / कार्तिकस्य तथैतेऽपि तदेते पर्वणी स्मृते / / सिंहव्याघ्राहिशबर-पक्षिणोऽन्येऽपि पापिनः। दृष्ट्वा शत्रुञ्जयेऽर्हन्तं भवन्ति स्वर्गगोमिनः।। सुरासुरमनुप्यादि-भवेष्वालोकितो न यैः। शत्रुञ्जयस्ते स्पृशतो (मनुजा) न शिवोदयभाजिनः। अन्यतीर्थेषु सद्ध थानशीलदानार्चनादिभिः / यत् फलं स्यात्तदधिकं शत्रुजयकथाश्रुतेः // विंशतिर्भवनस्येन्द्रा द्वात्रिंशद्वयन्तराधिपाः / द्वौ ज्योतिरिन्द्रौ दश चा-प्यूर्ध्वलोकनिवासिनः // चतुःपष्टिमिता एव-मिन्द्रा देवैर्वृता घनैः / शत्रुञ्जयं जगन्नाथ-भूषितं नेमुरादरात् / / युग्मम् / / अहो महोद्यतैः रत्नै-निःसपत्नैर्मरीचिभिः / पवित्रश्चित्रितो भाति सर्वस्फातियुतो गिरिः // सुवर्णशिखरैः शोभा-सम्भृतः शिखरीश्वरः। सर्वपर्वतनाथत्वात् मुकुटैरिव मण्डितः // सुवर्णरूप्यरत्नाद्यैः शृङ्गः कर्बरिताम्बरः। पुनानोऽयं समं द्यावा-भूम्धोरघहरो नृणाम् / / स्वर्णगिरि-ब्रह्मगिर्यु-दयार्बुदमुखैर्वरैः / अष्टोत्तरशतेनोच्च-र्भाति शृङ्गेरयं गिरिः। सर्वतः सिद्धायतनै-रहद्वेश्मविभूषितः॥ यक्षालयैर्लक्षितोऽसौ सिद्धिशैलो विभासते // यक्षकिन्नरगन्धर्व-विद्याधरसुरग्रजः। अप्सरोभिः सदा सेव्यो भाति शत्रुञ्जयो गिरिः // मुमुक्षवो योगिनोऽत्र विद्याधरनरोरगाः। कन्दरासु पवित्रासु ध्यायन्त्यर्हन्मयं महः // रसकूपी-रत्नखानि-दिव्यौषधिभिरन्वितः। सदा शत्रुजयोऽस्त्येष सर्वपर्वतगर्वभित् // कस्तूरीमृगयूथैश्च मयूरैर्मत्तकुज्जरैः / सञ्चरचमरीवृन्दैः सर्वतो भात्ययं गिरिः / / परस्परं विरुद्धा ये सत्त्वा आजन्मतोऽपि ते / त्यक्तवैरा रमन्तेऽत्र जिनाननविलोकिनः / / इतः शत्रुञ्जयां पश्य नदी पूर्वाब्धिगामिनीम् / कृतामिव पुण्यरेखां पश्यतां शृण्वतामपि // तालध्वजनगोत्सङ्गे तटिनी तटिनीपतेः। अटतीह तटं भाति याऽस्ति शत्रुजयानुगा // दिश्युत्तरस्यां पश्याच्छ-पयः प्राप्तमहोदया / इन्द्रेण निर्मितेत्यैन्द्री तदिनी स्फुटनीरजा // कपर्दिकां नदी दिव्य-जलकल्लोललालिताम् / पश्याम्भोरुहमध्यस्थ-हंससारससेविताम् / / प्रभोः पश्चिमदिग्भागे ब्राह्मी विश्वोपकारीणी / सरित् सलिलसम्पूर्णा भाति पापापहारिणी / शु जयन्द्री नागेन्द्री कपिला यमला तथा / तालध्वजी च पक्षाङ्गा ब्राह्मी माहेश्वरी तथा // साभ्रमती शबला पिवरतोया जयन्तिका / भद्रा चेति महानद्य इमा भान्ति चतुर्दश / / सूर्योद्यानममानश्रि पूर्वस्यां दिश्यदोऽद्भुतम् / स्वर्गोद्यानमपाच्यां च स्वर्गाद्यानसमानरुक् // प्रतीच्यां च सुराश्चोरु चन्द्रोद्यानमिदं महत् / लक्ष्मीलीलाविलासाख्यं कौबेर्यां विपिनं ह्यदः // चतुर्दिग्भ्यः समागच्छलक्ष्मीधम्मिल्लसन्निभैः / अदीप्यतामीभिरयं श्रीशत्रुञ्जयपर्वतः / / सौधर्मेन्द्रनियोगेन धनदेन विनिर्मितम् / कुण्डं कश्मलसङ्घात-विघात्येन्द्रपुरमिदम् / / सरः स्फुरचन्द्रिकाभ-जलोम्मिरवराजितम् / भरतम्य यशोराशि-रिवतद्धाति भारतम् / / ईषत्पवननिद्धृत-तरङ्गावलिलालितम् / सरः कपर्दियक्षस्य पश्य कस्य सुखाय न // मुक्तिसीमन्तिनीशोभा-समालोकनदर्पणम् / तटागं विकसद्भागं मुनेः पश्यत पश्यत / / सर्वतीर्थावताराख्यं चान्द्रं सौरं च सत्पयः / कुण्डमन्यान्यपि स्रष्टु-र्नामभिः पश्यतामराः // यदा शत्रुञ्जये साधुः पूजितो वा स्मृतः स्तुतः / श्रुतो

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404