Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जयतीर्थोद्धार प्रबन्धे शालाः संयमिनां च यत्र मधुरस्वाध्यायघोषोज्ज्वलाः ॥२३॥ युवमनो मृगबन्धनवागुरा स्मरमहीक्षिदमोघशरासनम् । नयनपातनिपातितविष्टपो लसति यत्र वधूगण उन्मदः ||२४|| वपुः श्रिया धिक्कृतमीनकेतना वनीपकेभ्यः प्रवितीर्णवेतनाः । विभान्ति यत्राप्तजयन्तवैभवा युवान उच्चैरधिरूढसैन्धवाः ॥ २५ ॥ यत्राभिसारिणीनामसिते पक्षेऽपि नेहितैः फलितम् । स्फाटिक सोधप्रग्रहविघटितभूच्छायनिकुरम्बे || २६ ॥ यत्र च चम्पककेतकपाडलनवमल्लिका सुमवनानि । तालतमालर सालमियालहिन्तालविपिनानि ॥ २७ ॥ सरांसि यत्रानिलकम्पिताब्जो च्छलद्रजःपुञ्जसुगन्धिकानि । अनेककारण्डव के किकोकगतागतै रम्यतमानि भान्ति ॥ २८ ॥ किंबहुना : चित्रकूटदिवोर्मध्ये सुरावासकृतैव भित् । यद्वा न स्वचतुर्वर्गोपायस्तेनांनरान्तरम् ॥ २९ ॥ तत्र त्रिलक्षाश्वपतिर्महीक्षित्साङ्गाभिधानोऽखिलभूमिशास्ता । स्वदोलनाम्बुधिमेखलां गामेकातपत्रामकरोत्प्रभुर्यः ॥ ३० ॥ आकारितोऽनेन विना मिषं न स्थातुं प्रभुर्यामिकवारकेऽहम् । इतीव भास्वान् हृदि सम्प्रधार्याऽततक्षदङ्गं किल यद्भयेन ॥ ३१ ॥ सावधानतया द्रष्टुं सहस्राक्षोऽभवद्धरिः । पलायनैकधीः सम्यग् योद्धं येन सहाक्षमः || ३२ ॥ अविहितसन्धानानां साङ्गेनामा करार्पणै राज्ञाम् । शङ्काशङ्कर्द्वारं निःसरणे नाप हृद्दाही ॥ ३३ ॥ हेषन्ते हरयो विपक्षसदनोद्भिन्नाङ्कुरैर्मेदुरा गर्जन्तेऽञ्जनशैलकीर्तिविततिग्रासोद्धुराः सिन्धुराः । व्यालश्यामलमेघघोररसितप्रस्पर्द्धिनः स्यन्दन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118