Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जयतीर्थोद्धारप्रबन्धे शतशः सूत्रधारास्ते यद्यदीपुर्यदा यदा । तत्तदानीतमेवाग्रेऽपश्यं श्रीकर्मसाधुना ॥ ९ ॥ कर्मेणावर्जितास्ते तु सूत्रधारास्तथा यथा । चक्रुर्मासविधेयानि कार्याणि दशभिर्दिनैः ॥ ९१ ॥ प्रतिमावयवानां तैर्विभागा वास्तुदर्शिताः। यथास्थानं समुत्कीर्णाश्चतुरस्राकृतिस्थितेः ॥ ९२ ॥ अपराजितशास्त्रोक्ततालालक्षणलक्षितः। उत्तुङ्ग आयकुशलैः प्रासादो विदधेऽद्भुतः ।। ९३ ॥ क्रमेण च सुनिष्पन्नप्रायास्तु प्रतिमास्तथा। मुहूर्त्तनिर्णयः कर्तुमारेभे शास्त्रकोविदः ॥ ९४ ॥ मुनयो वाचनाचार्या विबुधा अपि पाठकाः। सूरयो गणयोऽनेके देवतादेशशालिनः ॥ ९५ ॥ गणकाश्च निमित्तज्ञा ज्ञानविज्ञानकोविदाः। सर्वतोऽपि समाहूताश्चक्रुस्ते दिननिर्णयम् ।। ९६ ॥
(युग्मम् ) वैशाखमासेऽसितषष्ठिकायां वारे रवौ मे श्रवणाभिधे च । इदं मुहूर्त जिनराजमूर्तेः संस्थापनाया उदयाय वोऽस्तु ॥ ९७ ॥
इति वाक्यावसाने तान् समभ्यर्च्य यथोचितम् ।
कुश्माक्ताद्वानपत्र्यः प्राहिणोत्स दिशो दिशम् ॥ ९८ ॥ पाच्यामपाच्यां दिशि च प्रतीच्यां सम्प्रेषितास्तेन जना उदीच्याम् । श्रीपूज्यविद्यादिममण्डनानामाकारणाय प्रहितश्च रत्नः ॥ ९९ ॥ अङ्गेषु बङ्गेषु कलिङ्गकेषु काश्मीरजालन्धरमालवेषु ।
१ मूलप्रासादस्तु चिरन्तन एव तत्र जीर्णोद्धारः कारितो देव. कुलिकाश्चौद्धृताः । २ प्रतिष्ठामूहुर्तस्य प्रारेभे निर्णयो बुधैः-इति वा पाठः । ३ ज्येष्ठाता।
For Private and Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118