Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जयतीर्थोद्धारप्रबन्धे मासो माधवसंज्ञिकस्य बहुले पक्षे च षष्टयां तिथौ । वारेऽर्के श्रवणे च भे प्रभुपदाद्रौ साधुकर्मोद्धृतौ विद्यामण्डनसूरयो वृषभसन्मूर्तेः प्रतिष्ठां व्यधुः॥१३४॥ अन्येऽन्यांसां चक्रुर्मुर्तीनां स्थापनां च शिष्यवराः । नानुबभूवे तस्मिन् समये केनापि दुःखलवः ॥ १३५ ।। कृतकृत्यस्य कर्मस्यानन्दलाभे किमुच्यते । किन्तु चित्तै तदान्येषां नामादानन्दकन्दली ।। १३५ ।। न केवलं जनैः कर्मो धन्यो मेनोऽतिहर्षितैः । कर्मेणापि किलात्मानं धन्यं मेनेऽतिहर्षितः ।। १३७ ॥ तदा जज्ञे त्रयाणां हि समं व पनक्षणः । मूर्तेर्गुरोश्च कर्मस्य स्वर्णपुष्पाक्षतादिभिः ॥ १३८ ॥ सर्वावयवाभरणैर्वृष्टं कर्मेण सङ्घलोकैश्च । विहितं न्युञ्छनकृत्यैरानन्दोतबहुलरोमाञ्चैः ।।१३९।। दन्त्यं वा तालव्यं चैत्येऽस्थापयदथाहतः कलसम् । तालव्यमेव चात्मनि कर्मो दुष्कर्ममर्मज्ञः ॥ १४० ॥ सौवर्णेऽत्र च कलशे दण्डं संस्थापयाम्बभूवासी। शिवनगरशुद्धदण्डं मणिगणखचितं ध्वजोपेतम् ॥ १४१ ॥ सङ्घाधिपत्यतिलकं भाले कर्मस्य विजयतिलकमिव । विद्यामण्डनमूरिभिरकारि वंश्योदयायैव ॥ १४२ ॥ इन्द्रमालपरिधानादिकं किञ्चिद्वययास्पदम् । तन्नासीद्यन्न कर्मेणाराधितं दानशालिना ॥ १४३ ॥ नीराजनरथचमरछत्रोल्लोचासनानि कलशाश्च । तेन ग्रामारमोघांश्चैत्योपयोगिनो न्यस्ताः ॥ १४४ ॥ उदयादारभ्याहोऽस्तं यावत्कर्मसाधुसदनेऽभूत् । १ शत्रुञ्जये। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118