Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 106
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय उल्लासः । वाहीकवाल्हीकतुरुष्ककेषु श्रीकामरूपेषु मुरुण्डकेषु ॥ १० ॥ वैद्येषु साल्वेषु च तायिकेषु सौवीरप्रत्यग्रथकेरलेषु। कारूपभोटेषु च कुन्तलेषु लाटेषु सौराष्ट्रसुमण्डलेषु ॥१०१॥ श्रीगूर्जरात्रासु मरुष्वथापि ये सन्ति लोका मगधेषु तेऽपि । आकारिताः कर्ममहेभ्यः के नानाकारिताश्चाययुरुत्सवेऽस्मिन् ॥१०२ (त्रिभिः कुलकम् ) गजाधिरूढास्तुरगाधिरूढा स्थाधिरूढा वृषभाधिरूढाः। अभ्याययुः सारसुखासनाधिरूढा नराः सत्करभाधिरूढाः ॥१०३॥ विद्यामण्डनसूरीन्द्रान् रत्नसाधुरुपेत्य च । नत्वा स्तुत्वोल्लसद्भक्तिः ससङ्घाश्च न्यमंत्रयत् ॥ १०४ ॥ पूज्याः प्राहुर्महाभाग! पुरा पार्थसुपार्श्वयोः । चित्रकूटाचले चैत्यं व्यधायि भवताद्भुतम् ॥ १०५ ।। आहूतैरपि निर्बन्धादस्माभिस्तत्र नागतम् । विवेकमण्डनेनास्मच्छिष्येण तत्प्रतिष्ठितम् ।। १०६ ॥ चेतोऽस्माकं पुराप्यासीच्छत्रुञ्जयगिरि प्रति । सोत्कण्ठमधुना तत्तु त्वरां धत्ते विशेषतः ॥ १०७ ॥ ततः सरत्नसङ्घाः श्रीविद्यामण्डनमूरयः । शिष्यसौभाग्यरत्नानूचानादिमुनिमण्डिताः ॥ १०८ ॥ पर शतैः सरिराजैरन्यैः पाठकपण्डितैः । सहस्रसंख्यैर्मुनिभिः पूज्यत्वेन पुरस्कृताः ॥ ११० ॥ कृतोत्सवाश्च कर्मेणायातेनाभिमुखं भृशम् । विहरन्तः क्रमेणाऱ्याभूषयन्नुपत्यकाम् ॥ १११ ॥ लक्षाभिर्मानुषाणां सा भूरभूदतिसङ्कटा । कर्मेभ्यस्य परं वक्षो विपुलं समजायत ॥ ११२ ॥ सहस्य विपुलां भक्तिं शक्तिमान् स न्यधादनी। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118