Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोल्लासः । गुरवो व्याहरन् श्राद्ध ! धर्मकृत्ये विवेक्यपि । अन्तरायी भवस्यस्मान् भक्तिजाड्यमहो ! तव ॥ ७२ ॥ भृशं दानं तमालोक्य वत्सलत्वादुरुत्तमाः । व्यमुचंस्तत्र विनयमण्डनाभिधपाठकान् ॥ ७३ ॥ उद्यद्विहारिणः पूज्या यात्रायै ते प्रतस्थिरे । पाठकाचित्रकूटेऽपि भव्यसत्वानबूबुधन् ॥ ७४ ॥ तोलादिश्राद्धगणो निकषा पाठकमथोपधानादि । विदधे सद्गुरुबुद्धया कुलगुरुरीतिं न च लुलोप ।। ७५ ।। रत्नादिकाः श्रीकरमावसानास्तोलात्मजाः शुद्धधियः परेऽपि । पेठुः षडावश्यक नन्दतत्त्व भाष्यादिकं प्रीतिपरायणास्ते ॥ ७६ ॥ परं कर्माभिधे श्राद्धे पाठकाः श्रीगुरोर्गिरा । परमामादधुः प्रीतिं महत्कार्यविधातरि ॥ ७७ ॥ करमाहोऽन्यदा प्राह भवद्गुरुवचो विभो ! । अविसंवादि तत्रार्थे पूज्यैर्भाव्यं सहायिभिः ॥ ७८ ॥ पाठकेन्द्रास्ततः स्मित्वा सुश्लिष्टं वचनं जगुः । विनयादेव विमलगोत्रोद्धारकृतां हितम् ॥ ७९ ॥ चिन्तामणिमहामन्त्रं चिन्तितार्थप्रसाधकम् । ददुश्च विधिवत्तस्मै सुचिहोदयधारिणे ॥ ८० ॥ सर्वे पाठकपुङ्गवैरथ गिरौ श्रीचित्रकूटाभिधे ज्ञानध्यानतपःक्रियाभिरनिशं श्राद्धा भृशं रञ्जिताः । पीयूषोज्ज्वलया च देशनगिरा धर्मद्रुमाली तथा सिक्ताभिग्रहपुष्पसञ्चयवती जाता यथा सद्वने ॥ ८१ ॥ स्थित्वा मासान् कतिचन ततः पाठकेन्द्रा विजन्हुलोकानुचित उचिते योजयित्वा यथार्हम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118