Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जयतीर्थोद्धारप्रबन्धे आसन् वृद्धतपागणे सुगुखो रत्नाकराहाः पुरा___ऽयं रत्नाकरनामभृत्प्रववृते येभ्यो गणो निर्मलः । तैश्चक्रे समराख्यसाधुरचितोद्धारे प्रतिष्ठा शशि द्वीपत्र्येकमितेषु १३७१ विक्रमनृपादद्वेष्वतीतेषु च ॥६॥ प्रशस्त्यन्तरेऽपि" वर्षे विक्रमतः कुसप्तदहनैकस्मिन् १३७१ युगादिप्रभु श्रीशत्रुञ्जयमूलनायकमतिप्रौढप्रतिष्ठोत्सवम् । साधुः श्रीसमराभिधस्त्रिभुवनीमान्यो वदान्यः क्षिती श्रीरत्नाकरमूरिभिर्गणधरैः स्थापयामासिवान् ॥ १॥" गुप्ताः फलहिकाः सन्ति वस्तुपालसमाहृताः । समरोऽकारयद्विम्बं स्वाहतेन दलेन तु ।। ६४ ॥ स्मरस्थापितं बिम्बं म्लेच्छैः कालेन पापिभिः । शिरोऽवशेषं विहितं तदद्यापि तथार्च्यते ॥ ६५ ॥ तव चित्तालवालेऽसौ मनोरथसुरद्रुमः । उप्तोऽस्मिंस्त्वत्सुते किन्तु भविष्यति फलेग्रहिः ॥ ६६ ॥ प्रतिष्ठा समरोद्धारे यथास्मत्पूर्वजैः कृता। तथैव त्वत्सुतोद्धारेऽस्मद्विनेयैः करिष्यते ॥ ६७ ॥ नारसिंहिरिति श्रुत्वाऽविसंवादि गुरुदितम् । समं हर्षविषादाभ्यां भावसङ्करमन्वभूत् ॥६८ ॥ बबन्ध शकुनग्रन्थिं करमावः कुमारराट् । शत्रुञ्जयमहातीर्थोद्धारचिन्तां विदन् पितुः ।। ६९ ॥ यात्रास्नात्रार्चनादीनि श्रीसङ्घोऽपि यथारुचि । चकार गुरुसाहाय्यायात्रां च गुरुसत्तमाः ॥ ७० ॥ ससङ्घा गुरवोऽन्येधुश्चलनोपक्रम व्यधुः। गुरुस्थित्यै च तोलाख्यो निर्बन्धं बहुधाऽकरोत् ।। ७१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118