Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शत्रुञ्जयतीर्थोद्धार प्रबन्धे
कर्मः कनिष्ठोऽपि गुणैः समग्रैः प्रगीयते ज्येष्ठतया धरायाम् । ४६ । रूपेण कामो विजितः सुराद्रिधैर्येण गाम्भीर्यतया सरस्वान् । नयेन रामः शशिजश्च बुद्ध्या दानेन कल्पः करमाभिधेन ॥४७॥ अथागतान् सङ्घजनेन सार्द्धं गणाधिपान साङ्गनृपो निशम्य । शिखीव मेघागमने प्रमोदमियाय धर्मश्रवणाभिलाषी ||४८|| युक्तः पौरजनै रथेभतुरगातोद्यासनाडम्बरै
इतश्च
Acharya Shri Kailassagarsuri Gyanmandir
गत्वा पूज्यपादौ प्रणम्य नृपतिः शुश्राव सदेशनाम् । धन्यंमन्य उदारधीश्च सहसा प्रावेशयच्छ्रीगुरूनावासश्च यथाईमार्पयदसौ सङ्घाय सद्भक्तितः ॥४१॥ तोलाभिधेन ससुतेन समं नरेशः
शुश्राव धर्ममनघं सुगुरोः सदापि । आखेटकादिविरतिं वृषमूलभूता
मङ्गीचकार करुणाविमलस्वभावः ॥ ५० ॥
द्विजस्तत्रास्त्य सहनो नान्नैव पुरुषोत्तमः । स पूज्यैर्निर्जितो वादे सप्ताहैर्नृपसाक्षिकम् ॥ ५१ ॥ प्रशस्त्यन्तरेऽपि -
“ की च वादेन जितो महीयान् द्विधा द्विजो यैरिह चित्रकूटे । जितत्रिकूटे नृपतेः समक्षमहोभिरह्नाय तुरङ्गसंख्यैः ॥ ५२ ॥ अथ तोलाभिधः श्राद्धः पूज्यान् रत्नत्रयीभृतः । निरीक्ष्याप्यायितस्वान्तो गुरुभक्ति ततान सः ॥ ५३ ॥ अवकाशं समासाद्य लीलूजानिरथैकदा । कनीयः सूनुसंयुक्तो गुरून् पप्रच्छ भक्तितः ॥ ५४ ॥ भगवन् ! चिन्तितो मेऽर्थो भविष्यति फलेग्रहिः । न बेति सम्यगालोच्य प्रसादं कुरुताधुना ॥ ५५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118