SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शत्रुञ्जयतीर्थोद्धार प्रबन्धे कर्मः कनिष्ठोऽपि गुणैः समग्रैः प्रगीयते ज्येष्ठतया धरायाम् । ४६ । रूपेण कामो विजितः सुराद्रिधैर्येण गाम्भीर्यतया सरस्वान् । नयेन रामः शशिजश्च बुद्ध्या दानेन कल्पः करमाभिधेन ॥४७॥ अथागतान् सङ्घजनेन सार्द्धं गणाधिपान साङ्गनृपो निशम्य । शिखीव मेघागमने प्रमोदमियाय धर्मश्रवणाभिलाषी ||४८|| युक्तः पौरजनै रथेभतुरगातोद्यासनाडम्बरै इतश्च Acharya Shri Kailassagarsuri Gyanmandir गत्वा पूज्यपादौ प्रणम्य नृपतिः शुश्राव सदेशनाम् । धन्यंमन्य उदारधीश्च सहसा प्रावेशयच्छ्रीगुरूनावासश्च यथाईमार्पयदसौ सङ्घाय सद्भक्तितः ॥४१॥ तोलाभिधेन ससुतेन समं नरेशः शुश्राव धर्ममनघं सुगुरोः सदापि । आखेटकादिविरतिं वृषमूलभूता मङ्गीचकार करुणाविमलस्वभावः ॥ ५० ॥ द्विजस्तत्रास्त्य सहनो नान्नैव पुरुषोत्तमः । स पूज्यैर्निर्जितो वादे सप्ताहैर्नृपसाक्षिकम् ॥ ५१ ॥ प्रशस्त्यन्तरेऽपि - “ की च वादेन जितो महीयान् द्विधा द्विजो यैरिह चित्रकूटे । जितत्रिकूटे नृपतेः समक्षमहोभिरह्नाय तुरङ्गसंख्यैः ॥ ५२ ॥ अथ तोलाभिधः श्राद्धः पूज्यान् रत्नत्रयीभृतः । निरीक्ष्याप्यायितस्वान्तो गुरुभक्ति ततान सः ॥ ५३ ॥ अवकाशं समासाद्य लीलूजानिरथैकदा । कनीयः सूनुसंयुक्तो गुरून् पप्रच्छ भक्तितः ॥ ५४ ॥ भगवन् ! चिन्तितो मेऽर्थो भविष्यति फलेग्रहिः । न बेति सम्यगालोच्य प्रसादं कुरुताधुना ॥ ५५ ॥ For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy