SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोल्लासः । ध्वाना वेश्मनि यस्य साङ्गनृपतिश्चक्री नवः कोऽप्ययम्॥३४॥ अथामभूपस्य कुले विशाले क्रमादभूत्सारण ओशवंशे १ । श्रीरामदेवस्तनयस्तदीयो २रामस्य पुत्रोऽपि च लक्ष्मसिंहः३।३५ अथ लक्ष्मसिंहतनयः सत्याहो भुवनपालनामाभूत् ४ । श्रीभोजराजनामा५तनयोऽभूद्भुवनपालस्य ॥ ३६॥ ठकुरसिंहो भोजादत्तजः खेताभिधश्च तत्सूनुः७ । नरसिंहाख्यः साधुः८ क्रमशस्ते ते] नरोत्तंसाः ॥ ३७॥ तोलाभिधानो नरसिंहसूनुः९ साधुः सुधादीधितिशुद्धकीर्तिः । प्राणप्रिया तस्य च भाग्यभूमि-लू ललामप्रतिमा सतीषु ॥३८॥ साधुस्तोलाभिधः साङ्गभूपस्याभूत्प्रियः सखा । अमात्यत्वमनिच्छन् यो लेभे श्रेष्ठिपदं नृपात् ॥ ३९ ॥ स नयी विनयी दाता ज्ञाता मानी धनी भृशम् । दयालुहृदयालुश्च यशस्वी च महत्स्वपि ॥४०॥ विपरीतलक्षणोदाहरणे धनदं वदन्तु लाक्षणिकाः । तोलाख्यस्य वदान्यस्याग्रे भद्रामिवाभद्राम् ॥ ४१ ॥ तोलाहेन न केवलमर्थिजनो निर्मितः सदानन्दी। सुरशाखिप्रमुखा अपि विमोचिता याचकक्लेशात् ।। ४२ ।। गजरथतुरगाभरणस्वर्णलसद्रूप्यरत्नवसनानाम् । दानैरर्थिधरास्वम्भोधरलीलायितं तेन ॥ ४३ ॥ जिनधर्ममरालो न व्यमुचत्तस्य मानसम् । पद्मोदयकृतोल्लासं परं जाड्यविवर्जितम् ॥ ४४ ॥ तोलाहसाधुतनयाः पञ्च पाण्डवविक्रमाः। रत्नः१ पोमोरदशरथो३भोजः४कर्माभिध:५क्रमात ॥४५॥ एतेषु पञ्चस्वपि नन्दनेषु प्रशंसनीयेषु सुधर्मकृत्यैः। १ सारणदेवः । For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy