Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोल्लासः। श्रुत्वेति ते क्षणं तस्थुवा॑नस्तिमितलोचनाः । उचुश्च शृणु सम्यक् त्वं सज्जनाग्रिम ! सन्मते ! ॥ ५६ ॥ शत्रुञ्जये मूलबिम्बोद्धारचिन्तास्ति ते हृदि । वस्तुपालसमानीतदले दलितकिल्बिषे ॥ ५७ ॥ तदानयनस्वरूपं त्वेवम्श्रीवस्तुपालेन विधीयमाने शत्रुञ्जये स्नात्रमहोत्सवेऽस्मिन् । अनेकदेशागतभूरिसङ्घाधिपैः समं भक्तिभरमणुन्नैः ।। ५८ ॥ मा मूलबिम्बस्य विकूणिकाया भृङ्गारसङ्घदृवशाद्विबाधा । स्यांजातु देवेडिति सम्पधार्य पुष्पोच्चयैस्तां पिदधे समन्तात्॥५९॥
(युग्मम् ) तन्मन्त्रिराजोऽपि निरीक्ष्य चित्ते चिन्तां दधेऽवाच्यममङ्गलं चेत् । म्लेच्छादिना वा कलशादिना वा स्यान्मूलबिम्बस्य विधेर्नियोगात् गतिस्तदा सङ्घजनस्य केति निध्याय मम्माणिखनेरुपायैः । इहानिनायाधिपमोजेदीनदिल्ल्या विशालाः फलिका हि पञ्च॥६॥ ततश्चदिग्नन्दामितेषु विक्रमनृपात्संवत्सरेषु १२९८ प्रया
तेषु स्वर्गमवाप वीरधवलामात्यः शुभध्यानतः।। बिम्बं मौलमथाभवद्विधिवशाव्यङ्ग्यं सुभद्राचले
द्वैःस्तोकैगलितैः कदापि न मृषा शङ्का सतां प्रायशः ॥ ६२ ॥ इतश्च
१- स्तात् । २-मोजदीनाज्ञया तन्मंत्री पुनडो वस्तुपालमित्रं ताः शत्रुञ्जयाद्री रैषि । तत्रैका ऋषभफलही १ द्विीया पुण्डरीकफलही २ तृतीया कपर्दिनः३ चतुर्थी चक्रेश्वर्याः४ पञ्चमी तेजलपुरप्रासाद. पार्श्वफलही५ । ३-मुख्यम् । ४-संवत् १३६८ म्लेच्छाज्ञया तदा शत्रुझयमः।
For Private and Personal Use Only

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118