Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जयतीर्थोद्धारप्रबन्धे श्रीचित्रकूटदुर्गे जगाम तद्भूपविहितबहुमानः ॥ २२ ॥ करमभ्येन सहास्याभवदतिसौहार्दमंशुकः क्रयणात् । पियवचनाशनवसनैरेनं करमोऽपि बहु मेने ॥ २३ ॥ स्वमेऽन्यदा गोत्रसुरीगिरेभ्यः स्वेष्टार्थसिद्धिं प्रविभाव्य तस्मै । वितीर्णवान् टङ्ककलक्षमाशूद्यताय गन्तुं पथि शम्बलार्थम् ॥ २४ ॥ आजीवितं मित्रवराधमर्णोऽहं ते, वदन्तं त्विति कर्म आह । न वाच्यमित्थं प्रभवो हि यूयं भृत्यः कदापि स्मरणीय एषः ॥२५॥ सुलब्धराज्येन वचोमदीयमेकं विधेयं भवता प्रयत्नात् । शत्रुञ्जये स्थापनरूपमङ्गीचकार तद्बाधरशाहिराशु ॥ २६ ॥ अथ प्रतस्थे करमं ततोऽनुज्ञाप्याधिपो गूर्जरमण्डलस्य । सर्वसहायाः कुतुकानि सर्वसहो ह्यपश्यदिवसैः कियद्भिः ॥ २७ ॥ मुजप्फरो भूमिधवोऽवसाने शकन्दरं राज्यधरं चकार। से नीतिशालीति खलैनिजघ्ने स्तोकैरहोभिर्महिमुन्दकोऽपि ॥२८॥ वृत्तान्तमाप्तप्रहितं निशम्य विदेशगो बाधरशाहिरेनम् । प्रत्यावृतश्चम्पकदुर्गमाप तदैव राज्ये विनिविष्ट एव ॥ २९ ॥ श्रीविक्रमाद्गुिणदिक्शरेन्दुमितास्वतीतासु समासु१५८३ जज्ञे । राज्याभिषेको नृपवाधरस्य प्रोष्ठद्वितीयादिवसे गुरौ च ॥३०॥ स्वामिद्रोहपरायणाः खलजनाः केचिद्धता उद्धताः केचिनिर्विषयीकृता विदलिताः केचिच्च बन्दीकृताः। केचित्केचन लुण्टिता निगडिताः केचित्पदं त्याजिता राज्यं बाधरशाहिना श्रितवताऽहन्येव तस्मिन्नथ ॥ ३१॥ श्रीमद्भाधरभूपतेः प्रसरति स्फीते प्रतापाब्जिनी प्राणेशे प्रपलायितं रिपुतमस्तोमेन मूलादपि । दस्यूलूककुलेन भीतितरलेनाहो निलीय स्थितं १ चित्रकूटात् । २ शकन्दर। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118