Book Title: Shatrunjay Mahatirthoddhar Prabandh
Author(s): Jinvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीय उल्लासः।
अलावदीनो-वेदाक्षाग्रीन्दुवर्षेषु१३५४विक्रमात् ।
गूजरात्रालाभपुरजेताऽभूत्पार्थिवो महान् ॥ १० ॥ कुतु-सहाब-खसरबादीनाः श्रीग्यासदीन-मैहिमुदौ । पिरोज-बूवनृपौ तुगलक-महिमुदॆशाही च ॥ ११ ॥
दिल्लयामेते भूपा अलावदीनाच्च गूर्जरात्रेशाः। षण्महिमूदनृपान्ता राज्यविभक्तिस्ततो जज्ञे ॥ १२ ॥ अलावदीनाद्याज्ञप्ताः पत्तनेऽयाधिकारिणः ।
अलूखानः खानखानाँ दफरश्च ततारकः ॥१३॥ पीरोजशाहेः समयेऽथ जज्ञे श्रीगूर्जरात्राभुवि पादशाहिः । मुज्जफुराहः खगुणाब्धिचन्द्रमितेषु१४३०वर्षेषु च विक्रमार्कात् ।१४।
अहिमदशाहिर्जज्ञे तत आशेष्वब्धिचन्द्रमितवर्षे १४५४ । दिग्रसवेदेन्द्रद्धे१४६८ योऽस्थापयदहिमदावादम् ॥ १५ ॥ महिन्द-कुतुबंदीनौ शाहिमहिमुन्दवेगडस्तदनु। यो जीर्णदुर्गचम्पकदुर्गो जग्राह युद्धेन ॥ १६ ॥ ततो लक्षणसाहित्यज्योतिःसङ्गीतशास्त्रवित् । आधारो विदुषां वीरश्रीवरोऽभून्मुजफ्फरः ॥१७॥ प्रज्ञाः प्रजा इवापाद्यः प्रजा इव प्रजा अपि। शकन्दरादयः पुत्रा बभूवुस्तस्य भूविभोः ॥ १८ ॥ नयविनयभक्तिशक्तिप्रमुखगुणैरन्वितः पितुश्चेतः । अहरच्छकन्दराढो जायान्सूनुः प्रजायाश्च ॥ १९ ॥ बाधरनामा तदनुज उदरचरितः प्रतापजिततरणिः । रिपुहृदये प्रलयानल इवोदितः साहसी सततम् ॥ २० ॥ श्रुतपूर्वराजनन्दनचरितो वसुधानिरीक्षणव्यसनी । कतिचनपरिचारकजनसमन्वितो निर्ययौ सदनात् ॥२१॥ पुरनगरपत्तनान्याक्रामन् विक्रमधनः क्रमेणेषः ।
For Private and Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118