SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय उल्लासः। अलावदीनो-वेदाक्षाग्रीन्दुवर्षेषु१३५४विक्रमात् । गूजरात्रालाभपुरजेताऽभूत्पार्थिवो महान् ॥ १० ॥ कुतु-सहाब-खसरबादीनाः श्रीग्यासदीन-मैहिमुदौ । पिरोज-बूवनृपौ तुगलक-महिमुदॆशाही च ॥ ११ ॥ दिल्लयामेते भूपा अलावदीनाच्च गूर्जरात्रेशाः। षण्महिमूदनृपान्ता राज्यविभक्तिस्ततो जज्ञे ॥ १२ ॥ अलावदीनाद्याज्ञप्ताः पत्तनेऽयाधिकारिणः । अलूखानः खानखानाँ दफरश्च ततारकः ॥१३॥ पीरोजशाहेः समयेऽथ जज्ञे श्रीगूर्जरात्राभुवि पादशाहिः । मुज्जफुराहः खगुणाब्धिचन्द्रमितेषु१४३०वर्षेषु च विक्रमार्कात् ।१४। अहिमदशाहिर्जज्ञे तत आशेष्वब्धिचन्द्रमितवर्षे १४५४ । दिग्रसवेदेन्द्रद्धे१४६८ योऽस्थापयदहिमदावादम् ॥ १५ ॥ महिन्द-कुतुबंदीनौ शाहिमहिमुन्दवेगडस्तदनु। यो जीर्णदुर्गचम्पकदुर्गो जग्राह युद्धेन ॥ १६ ॥ ततो लक्षणसाहित्यज्योतिःसङ्गीतशास्त्रवित् । आधारो विदुषां वीरश्रीवरोऽभून्मुजफ्फरः ॥१७॥ प्रज्ञाः प्रजा इवापाद्यः प्रजा इव प्रजा अपि। शकन्दरादयः पुत्रा बभूवुस्तस्य भूविभोः ॥ १८ ॥ नयविनयभक्तिशक्तिप्रमुखगुणैरन्वितः पितुश्चेतः । अहरच्छकन्दराढो जायान्सूनुः प्रजायाश्च ॥ १९ ॥ बाधरनामा तदनुज उदरचरितः प्रतापजिततरणिः । रिपुहृदये प्रलयानल इवोदितः साहसी सततम् ॥ २० ॥ श्रुतपूर्वराजनन्दनचरितो वसुधानिरीक्षणव्यसनी । कतिचनपरिचारकजनसमन्वितो निर्ययौ सदनात् ॥२१॥ पुरनगरपत्तनान्याक्रामन् विक्रमधनः क्रमेणेषः । For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy