Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 163
________________ १५२ शान्तिनाथचरित्रेजलं हि साङ्ग किल गाङ्गमङ्गिना. मपुण्ययोगाद् न हि पुण्यमिष्यते । सरस्तदम्भोग्रहदम्भसंभवं न्यवारयद् वारिरुहैः करैरिव ॥६॥ पतत्त्रिणा तद् रुचिरेण वञ्चितं न राजहंसेन पदानुरागिणा । न लक्षणैः श्रीकमलाकरैः परैः ' सरोऽरुचच्चारु विभोः पदश्रिया ॥६॥ कृते विहारे विभुना ततः समं श्रियः प्रयान्त्या प्रविहाय पल्वलम् । अधायि चक्रेण तु हंसकप्रभा १ सरः खयं तस्या गङ्गाया अम्भोग्रहणं पुण्यमिति कपटनाटकं न्यवारयत्, अपुण्यं गाङ्गं वारि न ग्राह्यमिति भावः । २ भगवद्विहारे चक्रं व्योनि चलति, तत्रायं भावः; श्रियः नूपुरमेतत् पल्वलं विहाय गच्छन्त्याः ; अथवा, चक्रेण नम:सरस्याः घनपुष्करोदयः अधायि = आकाशरूपे तटाके कमल. मिदं जातम् । "पुष्करें द्वीपतीर्थाहिखगरागौषधान्तरे । ... तूर्यास्येऽसिफले काण्डे शुण्डाने खे जलेऽम्बुजे॥" हंसकं =नपुरं, पक्षे सूर्यस्य प्रभा। अत्र जलार्द्रतावशाद् नपुरे न शब्दः, प्रभा तु भवत्येव ।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190