Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 180
________________ षष्ठः सर्गः। अयि स्वयूयैरशनिक्षतोपम समं विषेहेऽप्युपसर्गकारणम् । सुरैनरैर्वा पशुभिः सहासुरैः कृतं त्वमीषां विकृतं न मानसम् ॥४१॥ भुवं पुनानस्य तवेति निर्गल___ न्ममाऽद्य वृत्तान्तमिमं बतोदिता । तनोति संसद् दिवि गायनैः प्रभो ! पुरन्दरस्यापि पुरो महोदयम् ।।४२॥ प्रभोर्विहारे मगधेऽपि मागधैः प्रवर्ण्यमाने विविधैर्महोत्सवैः । मुखानि लोलाक्षि ! दिशामसंशयं प्रियोऽवदत्पश्य विभूषणैरितः ॥४३॥ खसिन्धुचापप्रमयोन्नतावित स्तनूं प्रिये ! पश्य महोज्ज्वलां दिशाम् । मुखान्यमुष्याः किरणैश्च तामसाद् दशापि शून्यानि विलोकयिष्यसि ॥४४॥ १ हे निर्गतन्मम त्यजन्ममत्व ।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190