Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधर्मिकवात्सल्य प्रकाशः ॥२७॥
साधर्मिकवात्सल्य
जाजभाजाजावाजा
| स्वस: साऽब्रवीद् बाद, ततस्तां भरतोऽमुचत् ॥१६९॥ तदा च समवासादृषभोऽष्टापदाचले । गत्वा सा तत्र जग्राह, व्रतं तीर्थकदंतिके | ॥१७०।। राजा दूतमुखेनाख्यत् ,सौदर्यास्तांल्लघूनिति । सेवध्वं मां मया साई, युध्यध्वं वाऽधुना ध्रुवम् ॥१७१।। कुमारास्तेऽपि गत्वा
ऽऽशु, नत्वा तातं बभाषिरे । युष्मद्दत्तानि राज्यानि,लात्यसौ किमु कुर्महे ॥१७२।। (ग्रंथा। ६८००)खाम्यथोवाच हे वत्सा!, | या वांछा विषयेषु वः । न सिमा स्वःसुखैः सा हि, च्छेत्स्यते नृसुखैः कथम् ।।१७३।। अत्रार्थेऽचीकथनाथा, कथामांगारदा| हिकीम् । वैतालिकं च ते श्रुत्वाऽध्ययन शिथियुर्वतम् ॥१७॥ प्रैषीद् दूतमथो बाहुबलिने भरतः स तु । गत्वा नत्वेत्यभाषिष्ट, स्पष्टवाक भरतानुजम् ।।१७।। भरतो भरतक्षेत्रे, विभुरद्वैतवैभवः। कल्पद्रः सेवकानां यो, द्विषां महिषवाहनः ।।१७३ ।। ज्येष्ठो भ्राता जगज्ज्येष्ठ, सर्वत्राप्यौचितीचणः। तदसौ सेग्यतां स्वामिस्ततो वाहबलिर्जगौ ।।१७७ सेवकानामसौ कर्तमलं पुण्याहतेऽपि किम् । जिताश्चानेन केऽमित्रा, अजय्ये मय्यनिर्जिते ॥१७८। राजाऽधमौचितीचंचुशियमनुजानहो । ज्ञास्यते युधि लग्नेऽन्यदित्युक्त्वा तं व्यसर्जयत् ॥१७९।। ततश्च भरतः सर्वमामग्रीसहितोऽचलत् । सौनंदेयोऽपि त ज्ञात्वा, भरतायाभ्यषेणयत् ॥१.८०संग्रामसमये तूक्तो, सुरविद्याधरैरिमौ । युवां ननु महात्मानौ, युध्येथा ग्युधादिभिः ॥१८१॥ आमेत्युक्ते ततश्चकी, विजिग्ये दृष्टिसंयता। वाग्बाहुमुष्टिदंडेश्व, सौनंदेयेन लीलया ॥१८२॥ ततचिंतातुरश्चक्री, चक्रं समार तस्करे । आगाद् बाहुबली तं च, दृष्ट्वोचे चक्रिण | क्रुधा ।।१८३॥ धिक् त्वां भ्रष्टाश्रवः किं च, सचक्रं चूरयामि मे । किंत्वेमिभोगसंयोगैरीदृम्भिर्दारुणैः कृतम् ॥१८४॥ इत्युक्त्वा प्राव्रजत् सोऽथ, भरतस्तममर्षयत् । न्यस्य सोमप्रभ तस्य, राज्येऽसौ स्वां पुरीमगात् ॥१.८५॥ दध्यौ बाहुबली मानाद्वंदिष्येऽहं कथं लघून् । बंधुबंधुसुतादींश्च, प्रभुपार्श्वे स्थितान् मुनीन् १ ॥१८६॥ केवलार्थी ततस्तत्र, तस्थौ प्रतिमया च सः। वर्षाते प्राहिणोद् ब्राह्मीं,
॥२७॥
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54