Book Title: Sadharmik Vatsalya Prakash
Author(s): Devendrasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
साधर्मिकवात्सल्यप्रकाशः
|३७||
ONGC
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमस्यति न मां तेन, प्रसीदाम्यस्य भोः कथम् १ || ८३॥ भूयोऽपि शार्ङ्गभृत् प्रोचे, नासावविनयी त्वयि । किं त्वस्यान्यनमस्कारकरणे नियमोऽर्गला ||८४|| मा कुप्य वज्रकर्णाय, मान्यं भरतशासनम् । आसमुद्रांतमेदिन्या, भरतो ह्यनुशासिता || ८५ ॥ क्रुद्धोऽतिनृपो ब्रूते, कोऽयं भरतभूपतिः । यो वज्रकर्णगृह्यः सन्, बातूलो मां वदत्यदः ॥ ८६ ॥ आध्मातताम्रताम्राक्षो, मदाविष्ट इव द्विपः । अमित्रध्वांतमित्रोऽथ, सौमित्रिरिदमब्रवीत् ||८७|| भरतं किं न जानासि भरवस्थोऽपि भूभुजाम् । अरेरे कृपमंडूक !, ज्ञापयाम्येष क्षुतम् ||८८|| तदुत्तिष्ठ युधे सर्वात्मना संवम्मितोभव । न भवस्यसि गोधेव मद्भुजाशनिताडितः ॥८॥ तच्छ्रुत्वाऽतिराजोऽपि, | सानीकोऽनीकलालसः । सौमित्रिं तुमुत्तस्थौ, मृगारातिं मृगार्भवद् ॥ ९०॥ लक्ष्मणोऽपि गजस्तंभं, भुजस्तंभेन हेलया । उत्पाट्य ताडयामास, द्विषो द्विष इवांतकः ॥ ९१ ॥ अथानिल इवोत्पत्यावंतिराजं गजस्थितम् । बबंध वस्तवत् कंठे, तद्वस्त्रेणैव शार्ङ्गभृत् ॥९२॥ सायं पश्यतां तेषां वीराणां राघवानुजः । दुष्टर्षभमिवाकृष्य, तं निन्ये रामसन्निधौ ॥२३॥ वीक्ष्य सिंहोदरं रामो, बंधनाद् द्रागमोचयत् । सोऽपि राममुपालक्ष्य, नत्वा चेति व्यजिज्ञपत् ||१४|| स्वह्यो वज्रकर्णोऽयं, न चाज्ञायि मया प्रभो ! । तत् क्षमस्व | ममाज्ञानदोपं यत्कृत्यमादिश ।। ९२ ।। वज्रकर्णेन संबेहीत्यादिशत् तं रघूद्रहः । अवंतीशोऽपि तां वाचं, तथेति प्रत्यपद्यत ॥९३॥ (वज्रकर्णोऽपि तत्रागा लक्ष्मणाग्रजशासनात् । न ज्ञातस्त्वमिहायातो, मया रघुकुलोद्वह ! | अथवा किमिदं देव !, मत्परीक्षाकृते कृतम् ॥२७॥ कृतं नः प्राणितेनापि, यूयं छलपरा यदि । क्षमखाज्ञानदोषं मे, यत्कर्त्तव्यं तदादिश ॥ ९८ ॥ भूत्यै कोपः शिखामात्रकृत्ये शिष्ये गुरोरिव । संधेहि वज्रकर्णेनेत्यादिशतं रघूद्वहः ||२९|| सिंहोदरोऽपि तां वाचं, तथेति प्रत्यपद्यत ।) वज्रकर्णोऽपि तत्रागालक्ष्मणाग्रजशासनात् । विनयेन पुरोभूयेत्येवमूचे कृतांजलिः ॥ १०० ॥ मत्खामिनममुं मुंच, शाधि चैनं तथा प्रभो ! सदैव सहते
For Private and Personal Use Only
पद्मचरित्रं
॥३७॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54