Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 438
________________ श्रीमती प्रोपनियुक्तिः ॥४२०॥ प्राणिवधेऽप्यवधकः । णाणी कम्मस्स खयट्ठ-मुट्टिओऽणुहितो य हिंसाए । जयइ असढं अहिंसत्थ-मुट्ठिओ अवहओ सो उ ॥१०८८॥ ज्ञानी सम्यग्ज्ञानयुक्तः, कर्मणः क्षयार्थमुस्थितः-उद्यतो हिंसायां च न स्थितः । जयति-कर्मणः क्षये प्रयत्न करोति, अहिंसार्थमुत्थितः, किन्तु सहसा कथमपि प्रयत्नं कुर्वतोऽपि प्राणिवधः संजातः, स एवंविधोऽवधक एव साधुः ॥१०८८।। तस्स असंचेअयओ, संचेययतो य जाई सत्ताई । जोगं पप्प विणस्संति; णथि हिंसाफलं तस्स ॥१०८९॥ तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्याऽसंचेतयतो-अजानानस्य, किं सवानि, कथं? प्रयत्नवता:पि कथमपि न दृष्टः, प्राणी व्यापादितश्च, तथा संचेतयतो-जानानस्य कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च न प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः, ततस्तस्यैवंविधस्य यानि सत्त्वानि योग-कायादि प्राप्य विनश्यन्ति, नास्ति तस्य हिंसाफलं साम्परायिक-संसारजननं, यदि परमीर्याप्रत्ययं कर्म भवति, तदेकत्र समये बद्धमन्यत्र क्षपयति ॥१०८९।। जो अपमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वावज्जते णियमा, तेसिं सो हिंसओ होइ ॥१०९०॥ ॥४२०॥ Sain Education International For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494