________________
श्रीमती प्रोपनियुक्तिः ॥४२०॥
प्राणिवधेऽप्यवधकः ।
णाणी कम्मस्स खयट्ठ-मुट्टिओऽणुहितो य हिंसाए ।
जयइ असढं अहिंसत्थ-मुट्ठिओ अवहओ सो उ ॥१०८८॥ ज्ञानी सम्यग्ज्ञानयुक्तः, कर्मणः क्षयार्थमुस्थितः-उद्यतो हिंसायां च न स्थितः । जयति-कर्मणः क्षये प्रयत्न करोति, अहिंसार्थमुत्थितः, किन्तु सहसा कथमपि प्रयत्नं कुर्वतोऽपि प्राणिवधः संजातः, स एवंविधोऽवधक एव साधुः ॥१०८८।।
तस्स असंचेअयओ, संचेययतो य जाई सत्ताई ।
जोगं पप्प विणस्संति; णथि हिंसाफलं तस्स ॥१०८९॥ तस्यैवंप्रकारस्य ज्ञानिनः कर्मक्षयार्थमभ्युद्यतस्याऽसंचेतयतो-अजानानस्य, किं सवानि, कथं? प्रयत्नवता:पि कथमपि न दृष्टः, प्राणी व्यापादितश्च, तथा संचेतयतो-जानानस्य कथम् ? अस्त्यत्र प्राणी ज्ञातो दृष्टश्च न प्रयत्नं कुर्वतोऽपि रक्षितुं पारितः, ततस्तस्यैवंविधस्य यानि सत्त्वानि योग-कायादि प्राप्य विनश्यन्ति, नास्ति तस्य हिंसाफलं साम्परायिक-संसारजननं, यदि परमीर्याप्रत्ययं कर्म भवति, तदेकत्र समये बद्धमन्यत्र क्षपयति ॥१०८९।।
जो अपमत्तो पुरिसो, तस्स य जोगं पडुच्च जे सत्ता । वावज्जते णियमा, तेसिं सो हिंसओ होइ ॥१०९०॥
॥४२०॥
Sain Education International
For Privale & Personal use only
www.jainelibrary.org