Book Title: Nyayabindu Tika
Author(s): P I Tarkas
Publisher: Nutan Mudranalay

View full book text
Previous | Next

Page 17
________________ न्यायाबिन्दुटीका [१ परिच्छेदः विषयोपादेयभूतः क्षणो गृहीतः, तदेन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसंगो निरस्तः । एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षामष्यते । व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्व चक्षुराश्रितमेव । इतरथा चक्षुराश्रितत्वानुपपत्तिः कस्यचिदपि [११] विज्ञानस्य । एतच्च सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् । न त्वस्य प्रसाधकमस्ति प्रमाणम् । एवंजातीयकं तद्यदि स्यान्न कश्चिद्दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति । स्वसंवेदनमाख्यातुमाह - सर्वचित्तचैत्तानामात्मसंवेदनम् ॥ १० ॥ सर्वाचितेत्यादि । 'चित्तं' अर्थमात्रग्राहि । 'चैत्ताः' विशेषावस्थाग्राहिणः सुखादयः । सर्वे च ते चित्तचैत्ताश्च सर्वचित्तचैत्ताः । सुखादय एव स्फुटानुभवत्वात्स्वसंविदिताः; नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् । नास्ति सा काचिच्चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् । येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् । इह च रूपादौ वस्तुनि दृश्यमानेऽन्तरः सुखाद्याकारः तुल्यकालं संवेद्यते । न च गृह्यमाणाकारो नीलादिः सातादिरूपो वेद्यते इति शक्यं वक्तुम् । यतो नीलादिः सातरूपेणानुभूयत इति न निश्चीयते । यदि हि सातादिरूपोऽयं नीलादिरनुभूयत इति निश्चीयेत, स्यातदा तस्य सातादिरूपत्वम् । यस्मिन्रूपे प्रत्यक्षत्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत्प्रत्यक्षन् । न च नीलस्य सातरूपत्वमनुगम्यते । तस्मादसातान्नीलाद्यर्थादन्यदेव सातमनुभूयते नीलानुभवकाले । तच्च ज्ञानमेव । ततोऽस्ति ज्ञानानुभवः । तच्च ज्ञानरूपं वेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च । तस्मात्प्रत्यक्षम् । .. योगिप्रत्यक्षं व्याख्यातुमाह --- भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥११॥ ___ 'भूतः' सद्भूतोऽर्थः । प्रमाणेन दृष्टश्च सद्भूतः । यथा चत्वार्यसत्यानि । भूतार्थस्य ‘भावना' पुनः पुनश्चेतसि विनि

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110