Book Title: Nyayabindu Tika
Author(s): P I Tarkas
Publisher: Nutan Mudranalay

View full book text
Previous | Next

Page 77
________________ न्यायविन्दुटीका ७२ अतो ऽस्मान्नान्यस्याभावगतिः । तथा न वक्तृत्वाद्रागादिमत्त्वगतिः ; यतो यदि वचनादि रागादीनां कार्यं स्यातू वचनादे रागादिगतिः स्यात्, रागादिनिवृत्तौ [च] वचनादिनिवृत्तिः स्यात् । न च कार्यम् । कुतः ? रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः ||८०|| रागादीनां वचनादेव कार्यकारणभावस्यासिद्धेः कारणात् न कार्य, अतो ऽस्मान्न गतिः । [ ३ परिच्छेदः माभूद्रागादिकार्यं वचनम्, सहचारि तु भवति ; ततो रागादौ सहचारिणि निवृत्ते निवर्तते वचनमित्याशङ्कयाह-[२] अर्थान्तरस्य वाऽकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः ॥ ८१ ॥ इति संदिग्धव्यतिरेको ऽनैकान्तिको वचनादिः ॥ ८२ ॥ अर्थान्तरस्य वा ऽकारणस्य निवृत्तौ सहचारित्वदर्शनमात्रेण | नान्यस्य वचनादेर्निवृत्तिः । अतो वक्तृत्वं भवेद्रागादिविरहश्रेति । इतिशब्दः तस्मादर्थे । तस्मादसर्वज्ञत्वविपर्ययाद्विपक्षात् सर्वज्ञत्वाद्रागादिमत्त्व विपर्ययादरागादिमत्त्वात् संदिग्धो व्यतिरेको वचनादेः । अतो नैकान्तिको वचनादिः । एवमेकैकरूपासिद्धिसंदेहे हेतुदोषानाख्याय द्वयोर्द्वयो रुपयोरसिद्धिसंदेह हेतुदोषान्वक्तुकाम आह- द्वयोरूपयोर्विपयर्यसिद्धौ विरुद्धः ॥ ८३ ॥ द्वयोरूपयोर्विपर्ययसिद्धौ सत्यां विरुद्धः । त्रीणि च रूपाणि सन्ति । ततो विशेषज्ञापनार्थमाह- कयोर्द्वयोः ॥ ८४ ॥ कयोर्द्वयोरिति । विशिष्टे रूपे दर्शयति

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110