Book Title: Nyayabindu Tika
Author(s): P I Tarkas
Publisher: Nutan Mudranalay

View full book text
Previous | Next

Page 94
________________ ३ परिच्छेदः] न्यायाविन्दुटोका . ८९ तथा संदिग्धः साध्यधर्मो यास्मिन् स संदिग्धसाध्यधर्मः स आविर्येषां ते तथोक्ताः । संदिग्धसाध्यधर्मः, संदिग्धसाधनधर्मः, संदिग्धोभयः । उदाहरणं-रागादिमानिति रागादिमत्वं साध्यं, वचनादिति हेतुः, रथ्यापुरुषवदिति दृष्टान्तः । रागादिमत्त्वं संदिग्धम् । मरणं धर्मो ऽस्यति मरणधर्मा तस्य भावो मरणधर्मत्वं साध्यम् । ' अयं पुरुषः' इति धर्मी 'रागादिमत्त्वात्' इति हेतुः । रथ्यापुरुष दृष्टान्ते संदिग्धं साधनं, साध्यं तु निश्चितं मरणधर्मत्वमिति । असर्वज्ञ इति असर्वज्ञत्वं साध्यम् । रागादिमत्त्वादिति हेतुः । तदुभयमपि रथ्यापुरुष दृष्टान्ते संदिग्धं- असर्वज्ञत्वं रागादिमत्त्वं चेति । । ____ तथाअनन्वयोऽप्रदर्शितान्वयश्च । यथा यो वक्ता स रागादिमानिष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद्धटवदिति ॥१२७॥ अनन्वय इति । यस्मिन्दृष्टान्ते साध्यसाधनयोः संभवमात्रं दृश्यते न तु साध्येन व्याप्तो हेतुः सः · अनन्वयः ' । अप्रदर्शितान्वयश्च, यस्मिन्दृष्टान्ते विद्यमानो ऽप्यन्वयः न प्रदर्शितो वक्रा सः 'अप्रदर्शितान्वयः' । अनन्वयमुदाहरति- यथेति । यो वक्तेति वक्तृत्वमनूद्य स रागादिमानिति रागादिमत्त्वं विहितम् । ततो वक्तृत्वस्य रागादिमत्त्वं प्रति नियमः । तेन व्याप्तिरुक्ता। इष्टपुरुषवदिति । इष्टग्रहणेन प्रतिवाद्यपि गृह्यते वाद्यपि । तेन वक्तृत्वरागादिमत्त्वयोः सत्वमात्रं इष्टे पुरुषे सिद्धम् । व्याप्तिस्तु न सिद्धा । तेनानन्वयो दृष्टान्त इति । अनित्यः शब्द इत्यनित्यत्वं साध्यम्, कृतकत्वादि हेतुः । [८९] घटवदिति दृष्टान्तेन न प्रदर्शितोऽन्वयः । इह यद्यपि कृतकत्वेन घटसदृशः शब्दः तथापि न अनित्यत्वेनापि सदृशो प्रत्येतुं शक्यः, अतिप्रसङ्गात् । यदि तु कृतकत्वमनित्यत्वस्वभावं विज्ञातं भवति एवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् । तस्मात् यत् कृतकं तत् अनित्यमिति कृतकत्वं अनित्यत्वनियतमभिधाय नियमसाधनाय अन्वयवा

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110