Book Title: Nyayabindu Tika
Author(s): P I Tarkas
Publisher: Nutan Mudranalay

View full book text
Previous | Next

Page 26
________________ ___ २१ २ परिच्छेदः] न्यायबिन्दुटीका व्यतिरेको वा नियमवानेव प्रयोक्तव्यो नान्यथेति दर्शयितुं द्वयोरप्युपादानं कृतम् । अनियमे हि द्वयोरपि प्रयोगेऽयमर्थः स्यात् - सपक्षे योऽस्ति विपक्षे च नास्ति स हेतुरिति । तथा च सति 'स श्यामः तत्पुत्रत्वात् दृश्यमानपुत्रवत्' इति तत्पुत्रत्वं हेतुः स्यात् । तस्मान्नियमवतोरेवान्वयव्यतिरेकयोः प्रयोगः कर्तव्यः , येन प्रतिबन्धो गम्येत साधनस्य साध्येन । नियमवतोश्च प्रयोगेऽवश्यकर्तव्ये द्वयोरेक एव प्रयोक्तव्यो न द्वाविति नियमवानेवान्वयो व्यतिरेको वा प्रयोक्तव्य इति शिक्षणार्थ द्वयोरुपादानमिति । - त्रैरूप्यकथनप्रसङ्गेनानुमेयः सपक्षो विपक्षश्चोक्तः । तेषां लक्षणं वक्तव्यम् । तत्र कोऽनुमेय इत्याह - . अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी ॥८॥ 'अत्र' हेतुलक्षणे निश्चतव्ये धर्मी अनुमयः । अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः। व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय इति दर्शयितुं अत्रग्रहणम् । 'जिज्ञासितः' ज्ञातुमिष्टः 'विशेषः ' धर्मो यस्य धर्मिणः स तथोक्तः । कः सपक्षः - साध्यधर्मसामान्येन समानोऽर्थः सपक्षः ॥९॥ _ 'समानोऽर्थः सपक्षः'। समानः सदृशो योऽर्थः पक्षण स सिमक्ष उक्त उपचारात् समानशब्देन विशेष्यते । समानः पक्षः सपक्षः । समानस्य च सशब्दादेशः ॥ स्यादेतत् । किं [२१] तत् पक्षसपक्षयोः सामान्यं येन समानः सपक्षः पक्षणेत्याह - साध्यधर्मसामान्येनेति । साध्यश्वासावसिद्धत्वात् धर्मश्च पराश्रितत्वात् 'साध्यधर्मः' । न च विशेषः साध्यः , अपि तु सामान्यम् । अत इह सामान्य साध्यमुक्तं साध्यधर्मश्चासौ सामान्यं चेति । साध्यधर्मसामान्यन समानः पक्षेण · सपक्षः' इत्यर्थः । ___कोऽसपक्ष इत्याह --

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110