Book Title: Nyayabindu Tika
Author(s): P I Tarkas
Publisher: Nutan Mudranalay

View full book text
Previous | Next

Page 40
________________ २ परिच्छेदः] न्यायाबिन्दुटोका ३५ शीतजननं प्रति न तानि सन्तीति साध्यम् । वहेरिति हेतुः । यत्र शीतकारणान्यदृश्यानि शीतस्पर्शोऽप्यदृश्यः तत्रायं हेतुः प्रयोक्तव्यः । दृश्यत्वे तु शीतस्पर्शस्य तत्कारणानां वा कार्यानुपलब्धिः दृश्यानुपलब्धिर्वा गामिका । तस्मादेषाप्यभावसाधनी । ततो यस्मिन्देशे सदपि शीतकारणमदृश्यं शीतस्पर्शश्च दूरस्थत्वात्प्रतिपत्तुः, वह्निः तु] भास्वरवर्णत्वात् दूरादपि दृश्यः तत्रायं प्रयोगः ॥ ७ ॥ व्यापकविरूहोपलब्धिर्यथा नात्र तुषारस्पर्शोऽग्नेरिति ॥३९॥ प्रतिषेध्यम्य यत् व्यापकं तेन यत विरुद्धं तस्योपलब्धिरुदाहर्तव्यायथति । अत्रेति धर्मी । तुषारम्पर्शो नेति साध्यम् । वहेरिति हेतुः । यत्र व्याप्यस्तुषारस्पर्शो व्यापकश्च शीतस्पर्शो न दृश्यः तत्रायं हेतुः, तयोर्दृश्यत्वे स्वभावस्य व्यापकस्य चानुपलब्धिर्यतः प्रयोक्तव्या। तथा च सत्यभावसाधनी इयम् । दूरवर्तिनश्च प्रतिपत्तुः तुषारस्पर्शः, शीतस्पर्शविशेषः शीतमानं च परोक्षम् । वह्निस्तु रूपविशेषाद् दूरस्थोऽपि प्रत्यक्षः । ततो वहेः शीतमात्राभावः । ततः शीतविशेषतुषारस्पीभावनिश्चयः, शीतविशेषस्य शीतसामान्येन व्याप्तत्वादिति विशिष्टविषयेऽस्याः प्रयोगः ॥ ८ ॥ [३५] कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावादिति ॥ ४० ॥ प्रतिषेध्यस्य यत् कारणं तस्यानुपलब्धेरुदाहरणम् - यथेति । अत्रेति धर्मी । न धूम इति साध्यम् । वयसत्त्वादिति हेतुः । यत्र कार्य सदपि दृश्यं न भवति तत्रायं प्रयोगः । दृश्ये तु कार्ये दृश्यानुपलब्धिः गमिका । ततोऽयमप्यभावसाधनः । निष्कम्पायतसलिलपूरिते हृदे हेमतोचितवाष्पोद्गमे विरले संध्यातमसि सति, सन्नपि तत्र धूमो न दृश्यः इति कारणानुपलब्ध्या प्रतिषिध्यते । वहिम्तु यदि तस्याम्भस उपरि प्लवमानो भवेत् ज्वलितो रूपविशेषादेवोपलब्धो भवेत् । अज्वलितस्तु इन्धनमध्यनिविष्टो भवेत् तत्रापि दहनाधिकरणमिन्धनं प्रत्यक्षमिति स्वरूपेणाधाररूपेण वा दृश्य एव वह्निः इति तत्रास्याः प्रयोगः ॥ ९ ॥ कारणविरूद्धोपलब्धिर्यथा नास्य रोमहर्षादिविशेषाः संनिहितदहनविशेषत्वादिति ॥४१॥ प्रतिषेध्यस्य यत्कारणं तस्य याविरुद्धं तस्योपलब्धेरुदाहरणम्

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110