Book Title: Nyayabindu Tika
Author(s): P I Tarkas
Publisher: Nutan Mudranalay

View full book text
Previous | Next

Page 23
________________ अथ द्वितीयपरिच्छेदः । [१७] एवं प्रत्यक्षं व्याख्यायानुमानं व्याख्यातुमाह --- अनुमानं द्विधा ॥१॥ द्विप्रकारकम् ॥ अथानुमानलक्षणे वक्तव्ये किमकस्मात्प्रकारभेदः कथ्यते । उच्यते । परार्थानुमानं शब्दात्मकं, स्वार्थानुमानं तु ज्ञानात्मकम् । तयोरत्यन्तभेदान्नकं लक्षणमस्ति । ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते । प्रकारभेदो हि व्यक्तिभेदः । व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् । नान्यथा । ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् । अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा, प्राक प्रकारभेदः कथ्यत इति । किं पुनस्तद्वैविध्यमित्याह -- स्वार्थ परार्थ च ॥२॥ स्वस्मायिदं स्वार्थम् । येन स्वयं प्रतिपद्यते तत् स्वार्थम् । परस्मायिदं परार्थम् । येन परं प्रतिपादयति तत्परार्थम् । [१८] तत्र स्वार्थ त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् ॥३॥ 'तत्र' तयोः स्वार्थपरार्थानुमानयोर्मध्ये ' स्वार्थ ज्ञानं ' किंविशिष्टमित्याह - त्रिरूपादिति । त्रीणि रूपाणि यस्य वक्ष्यमाणलक्षणानि तत्रिरूपम् । लिङ्गयते गम्यतेऽनेनार्थ इति — लिङ्गम् ' । तस्मात्रिरूपाल्लिङ्गात् यत् जातं ज्ञानमिति, एतत् हेतुद्वारेण विशेषणं, तत् । त्रिरूपाच्च लिङ्गात् त्रिरूपलिङ्गालम्बनमप्युत्पद्यत इति विशिनष्टिअनुमेये इति । एतच विषयद्वारेण विशेषणम् । त्रिरूपाल्लिङ्गाद्यदुत्पन्नमनुमेयालम्बनं ज्ञानं तत् स्वार्थमनुमानमिति । लक्षणविप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह --

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110