Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 4
________________ वाचकानां प्रतिभावः मान्याः । · सादरं प्रणतयः । ३४तम्यों शाखायां प्रास्ताविके यदुक्तं तच्चिन्तनीयमस्ति सर्वैः शिक्षकैः शिक्षाक्षेत्रे निरतैः सुजनैश्च । अत्र ६५तमे पृष्ठे पत्रचर्चायां चोकसीमहाभागेन यदुच्यते तत् कथमपि न युज्यते । वारपरम्पराऽस्मदीया भवतु न वा, भारते या वारपरम्पराऽङ्गीकृता विद्यते तत्र प्रथमो वारो रविवार एवाऽस्ति, न तु सोमवारः । हरिहरपाण्डेयमहाभागोऽपि स्वकीये ग्रन्थे ७६-७७तमपृष्ठयोः "चौघडिया-मुहूर्त"विवरणे प्रथमवारत्वेन रविवारमेवाऽङ्गीकरोति । अथर्वज्योतिषे 'आदित्यः सोमो भौमश्च, तथा बुध-बृहस्पतिः । भार्गवः शनैश्चरश्चैव, एते सप्त दिनाधिपाः' (द्रष्टव्यम्, कल्याणपत्रिका ८८/१, 'ज्योतिषतत्त्वाङ्क'. पृ. २१०, 'भारतीयकालगणना') इति वचनेन स्पष्टतया ज्ञायते यद् भारतीयपरम्परायां सर्वत्र प्रथमवारत्वेन 'रविवारः' एव स्वीक्रियते । ज्योतिषग्रन्थेषु दिनगणना रविवारत एव क्रियते । - डो. रूपनारायण-पाण्डेयः (प्रयागः) सम्मान्याः! सादरं नमो नमः। ३४तमे नन्दनवनकल्पतरौ सर्वेऽपि स्तम्भाः सहृदयजनचित्तावर्जकाः । परम् आ.विजयहेमचन्द्रसूरीणां "परमात्मप्रार्थना" सरला रुचिरा निर्दूषणा गुणवती रसभावपूर्णा च वर्तते । एवं च मुनिन्यायरत्नविजयानां डॉ. वासुदेवपाठकमहाभागानां च "अन्तरालापा:" सरला मनोहरा बुधजनचित्तापहारकाश्चेति । प्रत्येकमन्तरालापस्य चरमे चरणे दत्तमुत्तरं सदुक्तिश्च बोधप्रदाविति । - किशोरचन्द्र-पाठकः (अमरेली)

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 130