Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ 38 July-2002 ततः प्रथमत एवोत्पन्नमात्रस्य बालस्य स्तनाभिलाषदर्शनादनुमीयते देहातिरिक्त: परलोकयायी जीवोऽस्ति, येन पूर्वभवे क्षुदपनोदकारी स्तनो दृष्टः सम्प्रति स्मरणविषयीकृत इति । मैवम्, भूतस्वभावादेव स्तनादानाभिलाषस्योपपत्ते: । अयमेव हि भूतानां स्वभावो यत् प्रथममननुभूतमपि किञ्चित् स्वात्मन उपष्ठ(ट)म्भकारकमुपाददते । न च स्वभावेऽपि पर्यनुयोगो घटते । 'अग्निर्दहति नाऽऽकाशं कोऽत्र पर्यनुयुज्यते ॥' इति वचनात् । विचित्रकार्यकारितया च भूतस्वभावस्याऽपि विचित्रत्वात् । __ अनेन प्रतिनियतालब्धवित्तलाभ-लब्धवित्तापहारवैचित्र्ये नियामकं पूर्वभवार्जितपेवाऽदृष्टं स्वीकर्तव्यं, तस्वीकारे च कर्तारमन्तरेण तदनुपपत्तेस्तकर्तुरात्मनोऽपि पूर्वभवेऽस्तित्वमङ्गीकर्तव्यमित्यपि निरस्तम् । भूतानामेव तथास्वभावत्वेनाऽलब्धवित्तलाभादिवैचित्र्योपपत्तेः । उक्तं च - ‘जलबुद्बुदवज्जीवा' इति । यथैव हि सरित्समुद्रादौ नियामकादृष्टं विनाऽपि स्वभावसामर्थ्याद् विचित्रा बुबुदा: प्रादुःष्यन्ति तथा प्राग्भवोपार्जितादृष्टमन्तरेणाऽपि अलब्धवित्तलाभादिवैचित्र्यभाजो जीवा इति । अपि चैतन्यविशिष्टकायमात्ररूपा भवन्ति इति नाऽस्ति परलोकगाम्यात्मा, तदभावाच्च नारकत्वाद्यवस्थारूपस्य परलोकस्याऽप्यभाव एव । तदुक्तम् 'एतावानेव लोकोऽयं यावानिन्द्रियगोचरः' ॥ इति एवं च परलोकार्थं तपश्चरणाद्यप्यनुष्ठानमनर्थकम् । यदाह'तपांसि यातनाश्चित्राः संयमो भोगवंचने'ति ।। अत्रोच्यते- यत् तावदवादि 'आत्मा प्रत्यक्षेण नोपलभ्यते घटादिवदिति', तदयुक्तम्; अवग्रहहापायधारणानां स्वसंवेदनप्रसिद्धत्वेनाऽऽत्मनोऽपि प्रत्यक्षत्वात् । धर्मप्रत्यक्षत्वे धर्मिणोऽपि प्रत्यक्षत्वनियमात् । नहि रूपादिप्रत्यक्षादन्यत् घटादीनां प्रत्यक्षेणोपलम्भनमस्ति, न चाऽवग्रहादीनां स्वसंवदनप्रसिद्धत्वमसिद्धम्; विवक्षितनीलत्वलक्षणविषये नीलं विज्ञानमुत्पन्नं ममाऽऽसीदित्यादेरवग्रहादिविषयकस्मरणात् तत्सिद्धेः । न चाऽननुभूतविषयमपि स्मरणं, अतिप्रसक्तेः; अनुभवश्चैषां स्वसंवेदनेनैवेति कथं न स्वसंवेदनप्रसिद्धत्वम् ? । न चाऽवग्रहादिज्ञानानां स्वसंवेदनप्रत्यक्षत्वेऽपि न धर्मत्वं, सततं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65