Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२०
43
कायाकारपरिणतभूतेभ्यः पुनरस्याऽभिव्यक्ति:, सुराकारपरिणतेभ्यस्तेभ्य इव तस्या इति चेत् । न । अविद्यमानायाश्चेतनायाः कायाकारपरिणत भूतैरभिव्यक्तेरसिद्धेः । ननूक्तमेव कायाकारात् प्रागपि भूतेषु अनभिव्यक्ता सा विद्यते इति चेद् उक्तं, परमयुक्तम् । तत्सत्त्वे प्रमाणाभावात् । न च विना प्रमाणं किञ्चित् सिध्यति, सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गात् ।
न च प्रत्यक्षमेव प्रमाणं, अतीन्द्रिये विषये तत्प्रवृत्तेरसिद्धेः । अनुमानं तु त्वया न स्वीक्रियत एव, अपसिद्धान्तापातात् ।
ननु सिद्धान्तरहस्यमिदमस्माकम् । सैद्धान्तिकैरुक्तं यदलौकिकमनुमानं स्वर्गनरकादिप्रसाधकं तन्न प्रमाणम् । लौकिकं तु धूमादि प्रमाणमेव । तद्दर्शनानन्तरं समस्तेनाऽपि लोकेनाऽग्नेरनुमीयमानत्वात् इति चेत्
-
हन्तैवमपि अकायाकारभूतेषु चैतन्यानुमानमप्रमाणमेव समस्तेनाऽपि लोकेन तत्र चेतनाया अननुमीयमानत्वेनाऽस्यालौकिकत्वात् । इत्थम्भूतस्याऽपि लौकिकत्वे स्वर्गनरकादिसाधकस्याऽपि लौकिकत्वप्रसङ्गात् ।
1
यत् तृक्तं काष्टपिष्टादिषु प्रत्येकमनुपलभ्यमानाऽपि मदशक्तिः सुराकारपरिणतैस्तैरभिव्यज्यते यथा तथा कायाकारपरिणतैर्भूतैश्चेतनाऽपीति । तदविचारितसुन्दरम् । यतो मदशक्तिर्न काष्टपिष्टादिवस्तुस्वरूपं, सुराकारपरिणामपूर्वदशायामपि तस्य सत्त्वेन तदभिव्यक्तिप्रसङ्गात् । न चाऽतीन्द्रियैव काचित्, तत्साधकप्रमाणाभावात् । न च भवद्भिः प्रागनुपलभ्यमानाऽपि तस्या अभिव्यक्तिरङ्गीक्रियत एव समुदायदशायामिति वाच्यम्, काष्टपिष्टादीनां मदशक्तावभिव्यञ्जकत्वासिद्धेः । विद्यमानं हि वस्तु येन प्रकाश्यते तदभिव्यञ्जकं यथाऽन्धकारदशायां घटादेः प्रदीपादि । न च मदशक्तिरपि विद्यमाना, प्रमाणाभावात् । तत् कथं काष्ट पिष्टादीनां तदभिव्यञ्जकत्वं ? किन्तु तज्जनकत्वम् । तत्सामग्रीसमावेशे तदुत्पत्तेर्दर्शनात् मृत्पिण्डादिसामग्यां घटवत् । तन्न तद्दृष्टान्तेन चेतनाया अभिव्यक्ति: सिद्ध्येत ।
I
यदपि - 'गथा नीलता प्रत्येकमनुपलभ्यमानाऽपि तन्तुसमुदाये उनलभ्यते तथा चेतनाऽपि' - इति कश्चित् तत् तुच्छम् । नीलतायाः पयांदषूपलभ्यमानायाः प्रत्येकमपि तन्तुपक्ष्मादी दर्शनात् । नह्येवं चेतनाऽपि प्रत्येकमुपलभ्यते, येनाऽयं दृष्टान्तः सम्यक् स्यात् । तदुक्तं "नीलादितुल्यताऽपि च प्रत्येकमदृष्टोऽ युक्तेति" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65