Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 38
________________ 67 अनुसंधान-२० हेतुत्वात् । न च- देशविशिष्टस्याऽपि वढेर्न साध्यत्वं तेन सममन्वयाभावात् - इत्यपि वाच्यम् । व्याप्तिकाले वह्निमात्रस्यैव विषयत्वेऽपि प्रयोगकाले देशविशिष्टवह्वेरेव विषयत्वात् । प्रतिपाद्यं हि प्रतिपादयता प्रेक्षावता धूमोऽग्निनान्तरीयको दर्शनीयः । यथा यत्र धूमस्तत्राऽवश्यमग्निरिति । स च धूमस्तथा व्याप्तिकाले वह्निमात्रेण व्याप्तः सिद्धः सन् यत्रैव पर्वतादौ स्वयं दृश्यते तत्रैवाऽग्निबुद्धिं जनयति नोदध्यादौ, तेन प्रयोगकाले देशविशिष्टो वह्निर्विषयो निर्दिश्यते । यद्येवं तर्हि प्रयोगकाले न साध्यनिर्देशो युक्तः, सामर्थ्येनैवाऽनन्तरोक्तेन तस्य गतार्थत्वात् । न । अनन्तरोक्तसामर्थ्यपरामर्शशून्यतथाविधपरव्यामोहनिवृत्त्यर्थत्वेम तस्याऽपि सफलत्वात् । अन्यथा हि तन्निर्देशाभावे व्याप्तिवचनान्तरं धर्मिणि पर्वतादौ तस्य दर्शनेऽपि अनन्तरोक्तं सामर्थ्यमनुसत॒मशक्तः सन् कश्चित् व्यामुह्येत । अतः परप्रतिपत्त्यर्थं परार्थानुमान प्रयोगाद्युक्तस्तदपेक्षया प्रतिज्ञाप्रयोग इति युक्तमुक्तं विशेषवत् सामान्यमनुमानस्य विषय इति । किञ्चाऽनुमानाप्रामाण्ये प्रत्यक्ष-तदाभासयोरपि प्रामाण्याप्रामाण्यव्यवस्था न स्यात् । तथाहि- चार्वाकोऽपि कश्चित् प्रत्यक्षव्यक्तिविवक्षितार्थक्रियासमर्थार्थप्रापकत्वेनाऽविसंवादिनीरन्याश्च तद्विपरीततया विसंवादिनीरूपलभ्य तल्लक्षणव्याप्त्या तादृशीनां प्रत्यक्षव्यक्तीनां प्रामाण्यमितरासां चाऽप्रामाण्यमुद्घोषयेत् । न च प्रत्यक्षमव्यवहितविद्यमान(ना?)विद्यमानार्थग्रहणपर्यवसितसत्ताकतया पूर्वा-परपरामर्शशून्यं सत् सकलकालभाविनीनां प्रत्यक्षव्यक्तीनां प्रामाण्य-निबन्धनमविसंवादित्वसामान्यमवबोधयितुमीष्टे । तस्मादवश्यंतया परिदृष्ट-प्रत्यक्षज्ञानव्यक्त्यनुसारेण प्रामाण्यनिबन्धनस्याऽविसंवादिसामान्यस्य प्रत्यायकमनुमानं प्रमाणत्वेनाऽऽश्रयणीयम् । अपि च 'अनुमानं न प्रमाणम्'- इति वाक्यस्य सन्दिग्धविपर्यस्तान्यतरं प्रत्यर्थवत्त्वात् तयोश्च परकीययोरप्रत्यक्षत्वात् तदवगमार्थं अनुमानप्रामाण्यस्याऽवश्यमङ्गीकरणीयत्वम् । अन्यथा तदीयसंशय-विपर्यययोरज्ञाने तदवबोधार्थं वाक्यप्रयोगानुपपत्तेः । किञ्च प्रत्यक्षस्य प्रामाण्यनिमित्तं गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणं, तच्च साध्यप्रतिबद्धलिङ्गज्ञानसामर्थ्यनोदीयमानस्याऽनुमानस्याऽप्यविशिष्टमिति कथं न तत् प्रमाणमङ्गीक्रियते ? केचित् तु - अथाऽनुमानं न प्रमाणं, गौणत्वात् । गौणं ह्यनुमानम्, उपचरितपक्षादिलक्षणत्वात् । तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65