Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
68
July-2002 ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते । व्याप्तिकाले भवेद् धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥ इति ॥
अगौणं हि प्रमाणं प्रसिद्ध, प्रत्यक्षवद्-इति चेत् । संपतितस्तव स्वारूढशाखामोटनन्यायः, गौणत्वाद्-इति हेतुं प्रमाणत्वेन स्वीकृत्य पुनस्तस्यैव प्रमाणत्वखण्डनात् । न च पक्षधर्मत्वं हेतुलक्षणमाचक्ष्महे, येन तत्सिद्धये साध्यधर्मविशिष्टे धर्मिणि प्रसिद्धमपि पक्षधर्मत्वं धर्मिण्युपचरेम, अन्यथाऽनुपपत्त्येकलक्षणत्वाद् हेतोः । नाऽपि व्याप्ति पक्षेणैव ब्रूमहे, येन तत्सिद्धये धर्मे तदारोपयेमहि, साध्यधर्मेणैव तदभिधानात् । न चाऽऽनुमानिकप्रतीतौ धर्मविशिष्टो धर्मी, व्याप्तौ तु धर्म : साध्य: - इत्येकत्र गौणमेव साध्यत्वमिति चेत् । मैवं । उभयत्र मुख्यतल्लक्षणभावेन साध्यत्वस्य मुख्यत्वात् । तत् किमिह द्वयं साधनीयम् ? | सत्यं । नहि व्याप्तिरपि परस्य प्रतीता, ततस्तत्प्रतिपादनेन धर्मविशिष्टं धर्मिणम्'अयं प्रत्यायनीयः' इत्यसिद्धं गौणत्वम् ।
अथ नोपादीयत एव तत्सिद्धौ कोऽपि हेतुः, तर्हि कथमप्रामाणिकी प्रामाणिकस्येष्टसिद्धिः स्यादिति नाऽनुमानप्रामाण्यप्रतिषेधः साधीयतां दधाति । नाऽनुमानं प्रमेत्यत्र हेतुः स चेत्, वाऽनुमानताबाधनं स्यात् ? तदा नाऽनुमानं प्रमेत्यत्र हेतुर्न चेत्, तत् क्षऽनुमानताबाधनं स्यात् ? तदेति संग्रहश्लोकः ।
कथं वा प्रत्यक्षस्य प्रामाण्यनिर्णयः ? यदि पुनरर्थक्रियासंवादात् तत्र निर्णयस्तहि कथं नाऽनुमानप्रामाण्यं ? प्रत्यपीपदाम च
प्रत्यक्षेऽपि परोक्षलक्षणमतेर्येन प्रमारूपता, प्रत्यक्षेऽपि कथं भविष्यति ? न ते तस्य प्रमारूपता''इति,- इत्याहुः ।
चिन्तामणिकारस्तु- अनुमानस्याऽप्रामाण्ये प्रत्यक्षस्याऽप्यप्रमाणत्वापत्तिः, प्रामाण्यस्याऽनुमेयत्वात् । स्वतः प्रामाण्यग्रहे च तत्संशयाद्यनुपपत्तेरित्याह ।
अथ यद्यपि किञ्चित् अनुमानं प्रमाणं, तथाऽपि तज्जातीयस्य तत्पुत्रत्वादेः साध्यार्थव्यभिचारित्वदर्शनेनाऽप्रमाणत्वात् न तत्र प्रामाण्यं इति चेत् । नूनं बहुपुत्रत्वं स्वात्मनोऽभिलषितं त्वया, कुलटाया बहुभर्तृभुक्तत्वेन शीलवत्त्वाभावात्, तज्जातीयतया त्वन्मातुरपि तथात्वात् । नाऽस्त्येव तत्र शीलविश्वास इति चेन्निर्णयेऽपि किं नास्त्येव येन स्वमातुरपि कुलटात्वमङ्गीकुरुषे? । किञ्चैवं प्रत्यक्षमपि न प्रमाणं स्यात्, मरुमरीचिकानिचयविषये जलोल्लेखिनस्तज्जातीयस्य तस्याऽर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65