Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 40
________________ 69 अनुसंधान-२० व्यभिचार-दर्शनेनाऽप्रमाणत्वात् । अथ तत् प्रत्यक्षाभासम्, अतो न तदप्रामाण्ये प्रत्यक्षस्याऽप्रामाण्यं, विजातीयत्वाद् इति चेत् । तर्हि तत्पुत्रत्वादिकमप्यनुमानाभासमिति न तदप्रामाण्येऽप्यनुमानस्याऽप्रामाण्यं, विजातीयत्वादित्यपि तुल्यम् । यथाहि यदिन्द्रियसागुण्यादिसामग्रीविशेषसम्पादितसत्ताकं प्रत्यक्षं तत् प्रमाणं, विसंवादाभावात् । इतरत्तु तदाभासम् । न च तद्बाधने व्याधातो, भिन्नजातीयत्वात् । तथा साध्यार्थान्यथानुपपन्नहेतुदर्शनतत्सम्बन्धस्मरणजनितं यदनुमानं धूमादि तत् प्रमाणं, विसंवादाभावात् । इतरत् तु यद्धत्वाद्यवयवमात्रजनितं तत्पुत्रत्वादि तत् तदाभासं, तस्य साध्यार्थान्यथानुपपन्नत्वाभावात् । न च तद्बाधने प्रमाणत्वाभिमतस्याऽनुमानस्य कश्चिद् व्याघातो, भिन्नजातीयत्वात् । तत् परिहरणीयमिदानी प्रत्यक्षस्य प्रमाणत्वं, स्वीकरणीयं वाऽनुमानस्याऽपि तद्-इति दुस्तरा प्रतिबन्दितरङ्गिणी । किञ्च नाऽनुमानं प्रमाणं- इति वाक्यं चेत् प्रमाणं तदाऽपसिद्धान्तः । अथ न प्रमाणं तदा समागतमेतद् यदनुमानं प्रमाणम् । तत्प्रामाण्याच्च ततः सिद्ध आत्मा प्रमाणसिद्ध एवेति तत्वम् । न चैतदनागमिकम्, आगमेऽपि जीवसत्ताया भणनात् । "अस्थि जीवे" इत्यादौ तथा दर्शनात् । अथ न चाऽऽगम: प्रमाणमित्यादि प्रागेवोक्तमिति चेत् । अन्यदपि बहूक्तमासीत्, परं तद् यथाऽयुक्तं तथेदमपि । तथा हि - नाऽन्योन्यं वादिनामसङ्गतत्वाभिप्रायमात्रेण वस्तुनोऽभावः; तस्य स्वकारणकलापनिमित्तत्वात् । नहि वस्तु वाद्यभिप्रायनिमित्तं, येन तदसङ्गतत्वेन तदप्यसङ्गतं स्यात् । ततश्चाऽयमप्यागमो यथावस्थितवस्तुप्रकाशनतया स्वयं प्रमाणं सत् परस्परं वादिनामसङ्गतत्वाभिप्रायमात्रेण नाऽप्रमाणं भवितुमर्हति; तदभिप्रायनिमित्तप्रामाण्यानभ्युपगमात् । अन्यथा घटादिप्रत्यक्षमपि प्रमाणं न स्यात्, अद्वैतवाद्यभिप्रायेण तस्याऽपि मिथ्यात्वात् । अथाऽस्मदादीनामभिप्रायेण तस्य सत्यत्वमस्त्येवेति तथैव तद् इति चेत् । तहि-अस्मदादीनामभिप्रायेण तस्याऽपि प्रमाणत्वमत्स्येवेति तथैवेति तदपि तुल्यम् । वस्तुतस्तु एवंभूतानामप्यभाव एव स्यात्, तत्राऽपि बहूनां विप्रतिपत्तेः । तस्माद् भूतानां काठिन्यादिस्वरूपस्येवाऽन्योन्यं वादिनां विप्रतिपत्तेर्नाऽऽगमस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65