Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 52
________________ अनुसंधान २० वेदयेदेवैकदोभयं प्रागेव निरासात् । किञ्च, यां स्रक्- चन्दन - वनितादिकां सामग्रीमवाप्य सुखी भवत्यात्मा, सा किमात्मनः कञ्चिदुपकारं कुरुते न वा ? । यदि कुरुते तर्हि स उपकार आत्मनोऽर्थान्तरं अनर्थान्तरं वा ? | यद्यर्थान्तरं तदा तेन सहाऽऽत्मनः सम्बन्धो न स्यात्, घटवत्, अर्थान्तरत्वात् । तथा च सति तदाऽपि तदवस्थात्वान्नाऽऽत्मा सुखी स्यात् । न चाऽर्थान्तरभूतोऽपि स उपकार आत्मना सह सम्बध्यते, तस्याऽद्रव्यत्वेन संयोगासम्भवात् । संयोगरूपत्वे तु समवायेन सम्बध्यत इत्येव तवाऽभिप्रायः । स त्वभिप्रायो वन्ध्यापुत्रेण सह संभोगाभिप्रायो युवत्यां; समवायसत्त्वे मानाभावात् । तत्साधकत्वेनाऽभिमतस्येह घटे रूपमिति प्रत्ययस्य इह भूतले घटाभावप्रत्ययस्येव समवायासाधकत्वात् । अथाऽनर्थान्तरभूत उपकारः क्रियत इति चेत् । स किं विद्यमानः क्रियतेऽविद्यमानो वा ? | यदि विद्यमानः, कथं क्रियते ? कृतस्य करणायोगात् । क्रियते चेत् तर्ह्यनवस्था, विद्यमानस्याऽपि करणाभ्युपगमे विद्यमानत्वाविशेषात् भूयो भूयः करणप्रसङ्गः । अथाऽविद्यमानो, व्याहतमेतत् सतोऽनर्थान्तरभूतोऽविद्यमानश्चेति विद्यमानाव्यतिरिक्तो हि विद्यमान एव भवति, अन्यथा तदव्यतिरेकायोगात् । 81 अथ किमनेन वाग्जालेन ? सत एव हि वाससो मञ्जिष्ठादि द्रव्येणाऽविद्यमानस्तदव्यतिरिक्तो रिक्तो रक्ततादिरूप उपकारः क्रियमाणो दृष्टः । न च दृष्टेऽप्यनुपपन्नतेति चेत् । तर्हि स्फुटमात्मनोऽनित्यत्वं, आत्मनोऽनर्थान्तरभूतस्योपकारस्य क्रियमाणत्वाभ्युपगमेनाऽऽत्मन एव क्रियमाणत्वापातात् तस्य तदव्यतिरिक्तत्वात् । अथ स्रक्-चन्दनादिसामग्री नाऽऽत्मन उपकारं करोति, ततो न दोष इति चेत् । तर्हि किं तेनापेक्षितेन ? उपकाराकारकत्वेन तत इव वस्त्वन्तरादप्यात्मा सुखी वा दुःखी वा स्यात्; वस्त्वन्तरादिव ततोऽपि वा न स्यात् । I अथाऽन्यद् वस्त्वन्तरं न सुखादिजननस्वभावमिति न ततः सुखी दुःखी वाऽऽत्मा सम्भवेत्; स्रक्- चन्दनादि तु तज्जननस्वभावमिति, ततस्तथा तथाऽऽत्मा स्यादेवेति चेत् । ननु यदि तेन कश्चिदुपकारो न क्रियते तदा तत्स्वभाववर्णनमनर्थकमेव स्यात् । न हि परमाणौ च्छेद्ये खड्ग- सर्षपयोः स्वभावविशेषो वर्ण्यमानः सङ्गतिमाप्नुयात्, उभयोरपि तत्राऽकिञ्चित्करत्वेनाऽ Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65