Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 64
________________ अनुसंधान-२० 93 तदनन्तरमेव तद् विवक्षितं कार्यं भवति / तथा च तत्कृतं कार्यस्याऽपि तत्स्वाभाव्यमिति चेत् / पटादेरपि तत्स्वाभाव्यं कथमेवं न भवेत्तस्याऽपि तदनन्तरमेव भवनात् / ननु विवक्षितमेव तदुत्तरघटक्षणलक्षणं कार्यं विवक्षित घटक्षणलक्षणकारणानुकारं, न त्वन्यत् पटादिक्षणलक्षणं कार्यम् / तेन तदेव तस्य कार्य नेतरदिति चेत् / न / पटादेरप्येवं तत्कार्यत्वापातात्, वस्तुत्वादिना तस्याऽपि तत्प्राचीनघटानुकारित्वात् / अपि च तद्धर्मानुगमविरहे कार्यस्य कथं तदनुरूपत्वं भवेत् ?| घटादेरपि वा कुतो न भवेत् ? / प्रमाणाभावस्योभयत्राऽपि सत्त्वात् / कारणधर्मानुगमाभावाविशेषेऽपि चेदमेवाऽस्य कार्यं नाऽन्यदित्यत्र न कोशपानं विना मानमस्ति / इति कथं त्वदुक्तं विना वल्लभं कोऽप्यङ्गीकुर्यात् ? / किञ्चेदं कारणमपेक्ष्य इदं कार्य जायत इत्यत्र न किञ्चिन्मानम् / कारणक्षणवर्तिनो ज्ञानस्य तदैव विनष्टत्वेन कार्यग्रहणासमर्थत्वात्, कार्यक्षणवर्तिनश्च ज्ञानस्य कार्यग्रहण एव सामर्थ्यात्, कारणस्य नष्टत्वेन तद्ग्रहणानुपपत्तेः / __ अपि च भवन्मते कार्यकारणभावः कदाचिदनुपलम्भपुर:सरेण प्रत्यक्षेणाऽवगम्यते / यदुवाच धर्मकीर्तिः "येषामुपलम्भे तल्लक्षणमनुपलब्धं सत् उपलभ्यत इति तल्लक्षणम्" इति उपलब्धिलक्षणप्राप्तम् / एतेन चोपलब्धिलक्षणप्राप्तानुपलम्भेन तस्मिन् देशे तस्य धूमादिकार्यस्य स्वहेतोः सन्निधानात् प्रागपि सत्त्वम् / तथा तस्य कार्यस्य सत एवाऽन्यतो देशादागमनं प्रागवस्थितकटकुड्यादिहेतुकत्वं चाऽपाकृतमवसेयम् / तथा कदाचित् प्रत्यक्षपुरःसरेणाऽनुपलम्भेन गृह्यते / यत उक्तम्- "तत्रैकाभावेऽपि नोपलभ्यते तत् तस्य कार्य" मिति / तच्च कथं संगच्छते ? / कार्यकारणप्रत्यक्षादीनां क्षणिकत्वेन परस्परवार्तानभिज्ञानात् / अथ कारणं वह्नयादि धूमादिजननस्वभावमिति तथास्वभावतयैव तद् गृह्यते प्रत्यक्षेण, नाऽन्यथा / कार्यमपि च धूमादि वह्नयाद्दिकारणजन्यस्वभावमिति दृष्टं सत् तत् तथैव गृह्णते, नाऽन्यथा / तेन तदग्रहणप्रसङ्गात् / तत्सामर्थ्यप्रभवश्च विकल्पोऽपि तथैव प्रवर्तत इति युक्तः प्रत्यक्षानुपलम्भादिना कार्यकारणभावावसायः / भवति हि धूमजननस्वभावानलग्राहकं विज्ञानमनलजन्यस्वभावधूमविज्ञानं प्रति कारणम् / अन्यथाऽनलग्राहकेन विज्ञानेनाऽनलस्य धूमजननस्वभावतैव न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65