Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 65
________________ 94 July-2002 गृहीता स्यात् / ततश्चेत इदं भवतीति प्रत्यक्षत एव सिद्धे सति नाऽन्यदाऽन्यत्राऽन्यस्मादपि शक्रमूर्धादेवूमादि कार्यं भविष्यतीत्येवाऽसिद्धिः कार्यकारणभावस्याऽऽशङ्कनीया / प्रतिनियतादेव कुतश्चिदग्न्यादेः प्रतिनियतस्य धूमादेरुत्पत्तेः / अन्यथा धूमाद्यहेतुकमेव स्यात् / तथाहि-यद् यदन्वयव्यतिरेकानुविधायि तत् तद्धेतुकम् / अन्यदा(था) चेदन्यस्मादपि धूमादि कार्यं भवेत् तर्हि न तद अग्न्यादिव्यतिरेकानुविधायि स्यात् / तथा च न तस्याऽग्न्यादिर्हेतुः स्यात् / अग्न्यादेश्च भवतो धूमादिकार्यस्य न घटादिव्यतिरेकानुविधायित्वमिति न तदपि तस्य हेतुर्भवेत् / एवं चोभयस्याऽपि तद्धेतुत्वाभावात् धूमादिकमहेतुकमेव प्राप्नोति, अहेतुकत्वाच्च सदा भावादिप्रसङ्गः / इति यद् यत एकदा भवद् दृष्टं तत् सर्वदा तत एव नेतरस्माद्- इति किमत्र न युक्तम् ? इति चेत् / न / कारणधर्मानुगमाभावाविशेषात् सर्वस्य सर्वकार्यत्वप्रसङ्गात् / अथ स्वभाव एवाऽतिप्रसङ्गदोषप्रतिषेधं करोतीति चे [त्]...... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65