Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 50
________________ अनुसंधान - २० यत् तेषामकृत्रिमत्वं न स्वीक्रियते ? । किञ्च यद्यसावकृत्रिमस्तदा तन्निष्पाद्या जीवा अपि तत्सत्ताभवनतुल्यकालत्वादनादय एव प्राप्ता इति गतं विवादेन । अथ नाऽसौ स्वसत्तासमकालमेव जीवान् कुरुते यत् तेषामनादिता स्यात् किन्त्वनन्ते कालेऽतीते इति चेत् । तर्हि तस्याऽनित्यत्वं स्यात् । पूर्वं विद्यमानस्याऽकारकत्वस्वभावस्य प्रच्युत्याऽविद्यमानस्य कारकत्वस्वभावस्योत्पादात् स्वभावस्य च स्वभाविनोऽनर्थान्तरत्वात् । यदि च नाऽस्त्येव स्वभावभेदस्तदा पूर्वमिव पश्चादप्यकारकत्वमेव स्यात् । ननु तस्यैक एवेदृश: स्वभावो यदनन्ते कालेऽतीते सति स जीवान् कुरुते नाऽन्यदा । तथा च न तस्य स्वभावभेदो नाऽपि जीवानामनादिता इति चेत् । न । अनन्ते कालेऽतीते सति स तस्य स्वभावो निवर्तते एवेति वाच्यम् । तथा चाऽनित्यत्वमेव तस्य स्वभावभेदस्याऽनित्यत्वलक्षणात् । अन्यथा सर्वादाऽप्यकारकत्वप्रसङ्गात्, करणकालत्वाभिमतकालेऽपि तस्य सत्त्वात् । 2 किञ्च नाऽसौ सतो जीवान् कुरुते, सतोऽपि करणेऽनवस्थानात् । नाऽप्यसतः, एकान्ततुच्छत्वेन तेषां वन्ध्यापुत्रादीनामिव भवनशक्त्ययोगात् । तत्राऽजीवोऽपि जीवानां कर्तेति कारणविरहादनादिरेव जीवः, आकाशवत् तदुक्तं 79 Jain Education International अमओ य होइ जीवो कारणविरहा जहेव आगासं । समयं च होअणिच्वं मिम्मयघड - तंतुपडमाई ॥ इति| अनादित्वाच्चाऽनन्तत्वमपि, सतः सर्वथा विनाशायोगात् । तत् सिद्धमेतत्तृ यद् अस्ति जीव:, अनादिरनन्तश्च । सोऽपि अमूर्तः, अतीन्द्रियत्वात्, गगनवत् । यो हि मूर्त: स कदाचिच्चक्षुरादीन्द्रियग्राह्योऽपि भवति । यथा घटारम्भकपरमाणु समूहो घटावस्थायाम् । न चाऽयं जीवः कर्मविनिर्मुक्तस्वरूपः कदाचिदपि चक्षुरादीन्द्रियग्राह्यो भवति, तेनाऽतीन्द्रियत्वादमूर्त्त एव । एवमन्येऽपि अमूर्त्तत्वसाधने मूर्तिविरह खड्गाद्यभेद्यत्वा ऽसर्वज्ञानुपलम्भादयो हेतवोऽभ्यूह्याः । न चैवं सिद्धान्तविरोधः कथञ्चिन्मूर्त्तत्वस्य संसारिदशायामेवेष्टत्वात् । सिद्धि दशायां तस्य 'अवणे अगंधे' इत्यादिना सूत्रेणाऽऽगमेऽपि अमूर्तत्वेनैव भणनात् । अथाऽयं जीवः परिणामी अपरिणामी वा । तत्र परिणामीति जैना: । अपरे पुनरपरिणामीति । तद् विचिन्त्यते । यथा मृत्पिण्डचक्रादिसामग्रीसद्धावाद For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65