Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
77
अनुसंधान-२० विरोधात् ।
अथ क्रीडया विचित्रान् सत्त्वान् करोतीति चेत्, तर्हि तस्य कौतस्कुती वीतरागता ? | क्रीडाया विचित्रक्रीडनोपायसाध्यक्रियादर्शनाभिष्वङ्गात्मकतया रागस्वभावत्वात् । न च क्रीडान्यथानुपपत्त्या रागादिमत्त्वमपि स्वीक्रियते इति वाच्यम् । अन्योन्याश्रयात् । नाऽपि विचित्रसत्त्वकरणान्यथानुपपत्तिरेव क्रीडा यां मानमिति नाऽन्योन्याश्रय इति वाच्यम् । तस्यैवाऽसिद्धेः । न चाऽऽगम एव मानं, तत्र विप्रतिपत्तेः ।
किञ्च यद्यसौ रागादिमान् स्यात् तर्हि सर्वस्य कर्ता न स्यात्, अस्मदादिवत् । यो हि यस्य कर्ता स तदुपादान-सहकारिकारणानि सम्यग् वेदयिता भवेत् । यथा घटस्य कर्ता कुम्भकारस्तदुपादान-सहकारिकारणानि । न च रागादिमान् पुरुषः सर्वस्य उपादानादिकारणानि जानीयात् । रागादिमत्त्वेन तस्याऽधिष्ठितौदारिकशरीरतया करणग्रामाधीनविज्ञानोदयत्वात् । न च करणविज्ञानं सर्वविषयकं, अतीन्द्रिये करणस्याऽप्रवृत्तेः, 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिने'ति वचनात् ।
अथ रागादिमत्वेऽपि तस्य जगत्कर्तृत्वं भवत्येव, कृत्रिमत्वाभावात्इति चेत् । न । कर्तृत्वेऽकृत्रिमत्वस्याऽप्रयोजकत्वात् । तदुपादानगोचरापरोक्षज्ञानचिकीर्षाप्रयत्नानामेव तत्कर्तृत्वे प्रयोजकत्वात् । अन्यथा कालादेरपि सर्वकर्तृत्वप्रसङ्गात् । न च ते तस्य सम्भवन्ति, रागादिमत्त्वात् । रागादिवशगस्य च ज्ञानावरणीयादिकर्मबन्धावश्यम्भावेन सर्वोपादानविषयकज्ञानस्य विरहात् सर्वकर्तृत्वं कुतः स्यात् ? ।
अथ सरागो न कर्मबन्धकारणं, न चैवं तस्य [स] रागत्वमेव न स्यात्, दाहाजनकस्याऽपि वर्वह्नित्वात्, इति चेत् । हन्तैवं विवक्षितवर्तेर्यथा दाहो न भवति तथा तस्मादपि रागादेर्न परमेश्वरस्य कञ्चित् सुखिनं दुःखिनं च कर्तुं प्रवृत्तिर्भूयात् । त्वदुक्तरीत्या तस्य स्वंकार्यजननं प्रति असमर्थत्वात् ।
अथ विवक्षितप्रवृत्तिलक्षणं कार्यं तज्जनयत्येव । तर्हि कर्मबन्धमपि कुतो न जनयेत् ? । न हि रागो जारस्य वक्षःस्थलपीडनाधरखण्डन-शरीरारोहणसुरतादौ प्रवृत्ति जनयन् कर्मबन्धं न जनयति, सर्वेषामपि मुक्तिप्रसङ्गात् ।
स्यादेतत्-तत्तत्कार्याणि कुर्वन्नपि परमेश्वरो न लिप्यते कर्मणा । जलान्त:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65