Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 56
________________ अनुसंधान-२० 85 उपाधिसम्बन्धात् / स्फुटिकोऽपि यथोपाधिरूप: / तदुक्तम् पुरुषोऽविकृतात्मैव स्वनि समचेतनम् / मनः करोति सान्निध्यादुपाधिः स्फुटिकं यथा // इति / चिद्रूपं च तत् [आलोचनायां प्रवर्तते इति / तदप्यसमीचीनं / पुरुषस्यैकस्वभावत्वेनेत्थं सदा प्रयोजकत्वापत्तेः / तथा च सति सदैव तद्रूपत्वान्मुक्त्यभावप्रसङ्गः / एतेन यथा चन्द्रः स्वभावेनाऽविकृतात्मा एव सन् चन्द्रोपलस्य पयःक्षरणे कदाचित् प्रयोजकः कदाचिन्न, तथाऽयमप्यात्मा कदाचिदेव प्रयोजको भविष्यति न तु सदेति निरस्तम् / चन्द्रस्याऽपि नित्यानित्यतया सर्वदैवाऽविकृतस्वभावत्वाभावात् / अन्यथा तस्याऽपि सदा प्रयोजकत्वापत्तेरिति / तस्मादात्मन एव बन्धमोक्षौ अभ्युपगन्तव्यौ / तथा च तस्य तदन्यथानुपपत्त्या परिणामित्वमेवेति स्थितम् / ___ अन्यस्याऽपि एकान्तनित्यत्वेन कथं बन्ध-मोक्षौ स्याताम् ? परिणामित्वे च कथं नाऽऽत्मनस्तौ ? प्रकृतेर्मोक्षाङ्गीकारे च तस्याः स्वरूपहानिरेवाऽभ्युपगता स्यात् / यदुक्तम्- "प्रकृतिवियोगो मोक्षः" इति / ततश्च प्रकृतेः प्रकृतित्ववियोगे स्वरूपभ्रंशात् / तथा च कुतो नित्यत्वमस्याः / किञ्चैवं पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः / जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः / / इति सिद्धान्तो मुक्तिप्ररूपको भवतां लुप्तः स्यात्, प्रकृतेर्मुक्त्यभिधानात् / अतो दृष्टादृष्टयोविरोधभावादेकान्तनित्यत्वं नाऽस्त्येव सर्वस्याऽपि वस्तुनः / / नन्वस्तु एकान्तेन तहि अनित्य एवाऽऽत्मा-इति चेद् / उत्सुकोऽसि, परं स्थिरीभव / स्थिरभावमन्तरेण निर्णयानुपपत्तेः / यद्यात्मा अनित्य एव स्यात् तर्हि कथं द्वे अपि सुखदुःखे वेदयते ? / सुखवेदकस्य प्राक्क्षण एव नष्टत्वेन दुःखक्षणेऽनवस्थानात् / न चाऽन्य एव दु:खभोक्ता, सकललोकव्ययवहारोच्छेदप्रसङ्गात् / लोके हि व्यवहारोऽयं- य एवाऽयं प्राग् दुःखी आसीत्, स एवाऽयमिदानीं सुखी / य एवाऽयं सुखसाधनार्थं यतते, स एव किल सुखमाप्नोति / येनैव पूर्वभवे बद्धं कर्म, स एवाऽस्मिन् भवे भुङ्क्ते। य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65