Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________ 86 July-2002 एवेदानी करोति पुण्यं वा पापं, स एवाऽऽगामिभवे तत्फलं भोक्ष्यति / य एव भवविरक्तः, स एवाऽयं संयमरतो दृश्यते / यौवनावस्थापन्नोऽपि स एवाऽयं मदीयः पुत्रः अहमेव चाऽस्य पिताऽपीति / य एवाऽसौ संसारी स एव वैराग्यादिवशान्मुक्त इति / येनैव प्राग् घटादिकमनुभूतं स एव स्मरति न त्वन्यः, अननुभूतस्य स्मरणायोगादित्यादिः / स चैकान्तक्षणिकत्वे आत्मनः कथं स्यात् ? शुभाशुभकर्तुस्तदानीमेव नष्टत्वेन तत्फलभोक्तुरन्यत्वात् / चेत् कोऽस्त्ययं य एतादृशं वचनमवादीत् ? / अहमस्मि बुद्धशिष्य इति चेत् / वाक्योच्चारणक्षणमात्रवृत्तितया क्षणिकस्त्वं कथमद्याप्यसि ? असि चेत् कथं क्षणिकः ? / तत्क्षणनाशेऽपि तव सम्प्रति विद्यमानत्वात् / अथाऽहं नाऽस्मि, किन्त्वन्य एवाऽयं वदति-इति चेत् / तर्हि असन् त्वं कथं वदसि 'अहं नाऽस्मि किन्त्वन्य एवाऽयं वदति' इति ? / नासत् शशशृङ्गं कदाचिदप्यहं नाऽस्मीति वदति, अविद्यमानस्याऽर्थक्रियाकारित्वाभावात् / कथं वा नष्टेन त्वयाऽन्योऽयं वदतीति निश्चीयते ? अन्याऽस्तित्वक्षणे तव सर्वथाऽप्यभावात् / तस्मादस्येव त्वमिदानीमपीति कथमात्मा क्षणिक: स्यात् ? / किञ्चैवं बाल्यावस्थानुभूतपांशुक्रीडादिस्मरणं वृद्धस्य न स्यात्, क्रीडानुभवितुर्बालात्मनस्तत्क्षण एव नष्टत्वात् / इदानीन्तनवृद्धात्मनस्तदानीमभावेन क्रीडानुभवितृत्वाभावात् / न चाऽननुभूतस्याऽपि स्मरणं संगच्छते, तव मदनुभूतस्य विद्यानगरादिनिवासस्य स्मरणापत्तेः / अथ भूत-भवद्-भविष्यत्क्षणप्रवाहरूपारूपात् (प्रवाहरूपात्) सन्तानात सर्वोऽपि स्मरणादिको व्यवहार उपपद्यते / तदुक्तम् यस्मिन्नेव हि सन्ताने आहिता कर्मवासना / फलं तत्रैव सन्धत्ते कसे रक्तता यथा // इति / / इति चेत् / न / स सन्तानः सन्तानिभ्योऽन्यो वा स्यात् ? अनन्यो वा ? यद्यन्यस्तर्हि किं नित्यो वा स्यात् ? क्षणिको वा ? | आद्ये "क्षणिकाः सर्वसंस्कारा" इति प्रतिज्ञाव्याघात: / द्वितीये कथं स्मरणादिको व्यवहार उपपद्यते ? सन्तानस्य तत्क्षण एव नष्टत्वात् / अथ सन्तानिभ्योऽनन्य एव सन्तानस्तर्हि सन्तानिन एव, न कश्चित् सन्तानः, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् / तथा च तदवस्थ एव पूर्ववत् व्यवहारविलोपप्रसङ्गः / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65