Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 44
________________ 73 अनुसंधान-२० नाऽकल्पनीयत्वात् । बाधकत्वं चाऽस्या इत्थं-यदि हिंसादिक्रिया यदि(?)पुण्यजननी स्यात् तर्हि तत्कर्तृणां बहुत्वेन बहुषु सुखित्वोपलम्भः स्यात्, पुण्यस्य सुखं प्रत्येव हेतुत्वात् । दृश्यते चाऽल्पेष्वेव सुखित्वं, ततोऽनुमीयते-दानादिक्रियैव पुण्यजननी, तत्कर्तृणामल्पत्वेन बहुषु दुःखित्वोपपत्तेः । न च दानादिक्रिया कर्तारमन्तरेण भवतीति कर्तृगवेषणायां आत्मैव कर्ता सिद्ध्यति । शरीरस्याऽत्रैव भस्मसाद्भवनेन, तमन्तरेणाऽन्यत्र तत्फलभोक्तृत्वानुपपत्तेः । एतेन धार्मिकवचनस्य यदप्रामाणिकत्वमुदीरितं तन्निरस्तं, दानादिक्रियाया अदृष्टफलवत्त्वेन साधनात् । तच्चाऽदृष्टं भवान्तर इहैव वा फलमर्पयति । यदुक्तम् "अवश्यमेव हि(?) भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥” इति । यदप्युक्तं-- 'जातिस्मरणमप्यसिद्धं - तदप्यसमीचीनं, पूर्वभवानुभूतधनवनितादिचिह्नभणनानन्तरं तत्संवादेन तस्य सिद्धः । तत्र च तद्वचनमेव प्रमाणम् । न च विप्रतारकवचनवदप्रमाणत्वमस्य, संवादेन तदुक्तस्य तस्मिन् विप्रतारकत्वाभावात् । दृश्यते च कस्यचिद् बालस्याऽपि जातिस्मरणं-यथा-अमुकस्थाने मया पूर्वभवेऽमुकया सहाऽनङ्गत्रयोदश्यां मध्याह्नसमये कामक्रीडां कुर्वता इत्युक्तं यत् "स्तनभारनते ! स्तनकोटिगतं तव मौक्तिकदाम कथं विरुचि ? ॥" तदा तयेत्युक्तं यत्उडुचक्रमिदं परिपूर्णविधोविभमस्य पुरो नहि किं भवति ? ॥ इति । पृष्टा च सती साऽप्येवमेव जगादेति । संवादोऽयं, न संवादाभासः, बालस्य विप्रतारणबुड्याद्यभावात् । न च क्वचिद् बाष्पादिनाऽपि अग्निमनुमाय प्रवृत्तौ यथा संवादो यादृच्छिकस्तथाऽयमपीति वाच्यं । बाष्पादौ धूमत्वभ्रमानन्तरं ततोऽग्निमनुमाय प्रवृत्तौ वचिद् विसंवादस्याऽप्युपलब्धेः । न च न दृष्ट एव कश्चिदस्माभिर्जातिस्मरणवानिति नाऽस्त्येवेति वाच्यं । प्रपितामहस्याऽप्यभावप्रसङ्गात् । न हि स भवता दृष्टोऽस्ति येन कदाचित् स्वीक्रियते, तदभावाच्च पितामहाद्यभावे तवाऽप्यभावः स्यात् । न हि अकारणं किञ्चिज्जायते, सदा भावाभावप्रसङ्गात् । अथ पितामहादिकार्यान्यथानुपपत्त्या प्रपितामहादेः सत्त्वमवगम्यत इति चेत् । तर्हि पत्तनस्थेन बालेनोक्तं यद् दक्षिणापथे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65