Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 37
________________ 66 July-2002 हा हतं स्वकीयं मतम्, अनुमानस्य स्ववाचैव प्रमाणत्वाभ्युपगमात् । अविनाभावस्मरणसापेक्षं लिङ्गाल्लिङ्गिज्ञानस्याऽनुमानत्वात् ।। अथाऽप्रमाणमप्यनुमानं आत्मप्रतिषेधकमस्त्विति चेत् । न । अप्रमाणस्याऽयथार्थत्वेन प्रतिषेधकत्वायोगात् । स्यादेतत्, यद्यपि मन्मते नाऽनुमान प्रमाणं, तथाऽपि त्वन्मते तु प्रमाणमेव । ततश्च प्रमाणत्वेनाऽभिमतात् तस्मात् तवाऽऽत्मप्रतिषेधः स्वीकार्यते इति चेत् । न । वस्तुगत्याऽप्रमाणस्य यथावस्थितार्थप्रतिपत्तिनिबन्धनत्वायोगात् । अन्यथा प्रमाण-पर्येषणानर्थक्यप्रसङ्गात्। एतेन परकीयेनाऽपि खड्गेन दृष्ट एव यथा विनिपातस्तथा परमतप्रमाणेनाऽपि आत्मप्रतिषेध इति निरस्तम् । खड्गस्य परिविनिपातनशक्तिसमन्वितत्वेन ततः परविनिपातोपपत्तेः । न ह्यनुमानस्याऽपि वस्तुप्रमापणशक्तिसमन्वितत्वं येन ततो विवक्षितवस्तुप्रतिपत्तिः स्यात् । परेण तथा स्वीक्रियत एवेति चेत् । तत् किं पराभिप्रायानुयायि वस्तु-इति मन्यसे? तथा सति काचस्याऽपि कुतः प्रकाशकत्वं न भवति ? परेण तमसि तस्य रत्नत्वेन गणनात् । अथेष्यत एव स्वार्थसिद्ध्यर्थं अनुमानस्याऽपि वस्तुप्रमापणशक्तिमत्त्वं, तहि सिद्धमेवाऽनुमानं प्रमाणं, यथावस्थितार्थवस्तुविषयत्वेन प्रसह्य प्रामाण्योपपत्तेः । न चैवमपसिद्धान्तः, उपचारेण विषयादीनामपि प्रमाणत्वस्वीकारात्, मुख्यवृत्त्या विज्ञानमेव प्रमाणमिति सिद्धान्तात् । वस्तुतस्तु नाऽस्त्येव तदनुमानं यदात्मप्रतिषेधकम्, अनुपलब्धेरन्यस्य प्रतिषेधे व्यापारायोगात् । इति-सिद्ध एवाऽऽत्मा, तत्प्रतिषेधकप्रमाणाभावात् । प्रत्यक्षानुमानयोस्तत्साधकत्वेन भणनाच्च । __अथ 'न चाऽनुमान प्रमाणम्, अनुमानविरोधादिदोषसद्भावादिति' प्रागेवोक्तमिति चेत् । न । साध्यार्थान्यथानुपपन्नलिङ्गनिश्चयबलप्रवृत्तेऽनुमाने'नुमानविरोधादिदोषाभावात् । न हि धूमेन पर्वतेऽग्नौ साध्ये नाऽग्निमान् पर्वतः, पर्वतत्वात्तदन्यपर्वतवदित्यनुमानविरोधस्य, तथा पर्वतो निस्तलनिर्वृक्षप्रदेशस्थाग्निमान्, धूमात् महानसवदितीष्टविघातकृत्त्वस्य, पर्वतो नाव्यत्त्या(?)ऽग्निमान्, धूमात्- महानसवदिति विरुद्धाव्यभिचारित्वस्य वा दोषस्याऽवकाशोऽस्ति, एषां प्रत्यक्षबाधितविषयतयाऽनुमानाभासत्वेन विवक्षितानुमानबाधकत्वायोगात् । यदप्युक्तं-अनुमानस्य किं सामान्यं विषयो विशेषो वेत्यादि, - तत्रोच्यते। विशेषवत् सामान्यं, अयोगव्यवच्छेदेन प्रदेशविषिष्टस्यैव वह्नः पुरुषप्रवृत्तिः प्रति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65