Book Title: Mahopadhyaya Yashovijayji Ganikrut Atmasamvad
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 36
________________ अनुसंधान-२० 65 ऽवगमनिबन्धनत्वाभावात् । उक्तं च- "प्रत्यक्षस्य निवृत्तेरभावनिश्चय इति चेत्तच्च नाऽस्ति, तेन च प्रतिपत्ति' रिति व्याहतमेतदिति । ननु वस्त्वन्तरविषयं प्रत्यक्षं नाऽविद्यमानं, किन्त्वात्मानं न गृह्णाति इति आत्मनिषेधकं केवलभूतलविषयप्रत्यक्षस्य घटनिषेधत्ववत् इति चेत् । न। वस्त्वन्तरेण सहाऽऽत्मन एकज्ञानसंसर्गित्वलक्षणसम्बन्धस्याऽभावात् । तस्याऽतीन्द्रियत्वेन । अन्यथा घटस्येव तस्याऽपि देशकालनिषेध एव स्यान्न पुनः सर्वत्र सर्वदा । अथाऽऽत्मविषयकप्रत्यक्षाभाव आत्माभावे प्रमाणमिति चेद् । हतो ऽसि । प्रत्यक्षमेवैकं प्रमाणमिति सङ्गरव्याघात् । अभावस्याऽनिश्चयत्वे नाऽप्रमाणत्वाच्च । अथ किमनेन वाग्विलासेन ? यत्प्रत्यक्षेण नोपलभ्यते तन्नाऽस्ति । न च परचैतन्येन व्यभिचार:, चेष्टादिदर्शनेन तस्य प्रत्यक्षेणोपलम्भादिति चेत् । न । मूच्छितादौ चैतन्यस्य प्रत्यक्षेणाऽनुपलम्भेऽपि सत्त्वात् । न च मूर्च्छापगमेऽन्यदेव चैतन्यं कायादुत्पन्नमिति वाच्यं, मानाभावात् । न च समानमेतत् पूर्वानुभूतस्मरणस्यैव मानात् । उपलभ्यते हि मूर्च्छापगमे पूर्वानुभूतस्य स्मरणम्, अविगानेन सर्वेषां तथाऽनुभवात् । चैतन्यं च यदि नैतत्प्राचीनं, कथमेतत्स्मरणं स्यात् ? इदानीमुत्पन्नस्य तदनुभवाभावात् । न चेदं भ्रान्तं विवक्षितमर्थं स्मृत्वा प्रवृत्तस्य संवादोपलब्धेः । न च चेष्टादिना चैतन्यं प्रत्यक्षेणोपलभ्यते, तस्याऽतीन्द्रियत्वात्, चैतन्याव्यभिचारित्वस्य तत्र ग्रहीतुमशक्यत्वाच्च । स्वसंवेदनप्रत्यक्षत एव तस्याः स्वशरीरे चैतन्येन सहाऽव्यभिचारग्रहेऽनुमानप्रामाण्य प्रसङ्गात् । अव्यभिचरितार्थान्तरदर्शनात् साध्यार्थप्रतिपत्तेरनुमितित्वात् । किञ्च, 'यन्न दृश्यते तन्नाऽस्ति' इत्येवंरूपोऽविनाभावो न तावत् सिद्धः, सत्यपि वस्तुनि अदर्शनस्य सम्भवात् । कथमन्यथा काष्टाद्यन्तः प्रविष्टा ददृश्याज्ज्वलनाज्ज्वलनश्चन्द्रकान्तान्तर्गताद् वा तोयात् तोयं व्यक्तीभवदभ्युपगतं भवता । न च दृश्यमानेन्दुकान्तादेरेव पार्थिवः ज्वलनोदकाद्युत्पादोऽभ्युपगम्यते । नाऽदृश्यमानादित्यपि वक्तुं शक्यं भवता, सर्वेषां भूम्यादीनामुपादानों पादेयभावप्रसङ्गेनाऽऽर्हताभिमतपुद्गलैकतत्त्ववादापत्त्या तत्त्वचतुष्टयवादविलोपात् । असिद्धौ चाऽविनाभावस्य नाभाव एव, आत्मनः सन्धिग्धविपक्षव्यतिरेकत्वात् । सिद्धश्चेद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65